पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
102
अलंकारमणिहारे

कमृगायमाणनिजहरिणशावकानुधाव्यमानपार्ष्णिभागौ' इति हरिणस्योभयसाधारण्योक्तिस्संगच्छते । यद्वा कमलानि उत्तममहिळात्वसूचकरेखाकारपद्मानि पदे यस्यास्सेति । साधुरतेः रमणियवल्लभप्रीतेः । गौर्याः पार्वत्याः वाण्याः वाचः वशगः । मनोभवं मन्मथं हरतीति मनोभवहारी । सुष्ठु मनोभवहारी सुमनोभवहारी कन्दर्पवैरीत्यर्थः । अजः ईशानः निजपदलग्नान् स्वचरणसक्तान् सत्कामान् विद्यमानमदनान् तनोतीति विरोधः, फलितमनोरथांस्तनोतीति परिहारः ॥

 स्मरपक्षे तु-- कमलपदायाः अरुणाम्बुजचरणाया गौर्याः अरुणवर्णायाः पातिव्रत्येन विशुद्धाया वा । ‘गौरः पीतेऽरुणे श्वेते विशुद्धे चाभिधेयवत्' इति मेदिनी । रतेः रतिदेव्याः वाण्याः वाचः साधु यथा स्यात्तथा वशगः । तदाज्ञावशंवद इत्यर्थः । सुष्ठ मनसि चित्ते भवेन जन्मना हारी रम्यः मनसिज इत्यर्थः । अजः स्मरः । कोशस्तूदाहृत एव । निजपदेषु स्वकीयवस्तुषु आलम्बनगुणाद्युद्दीपनविभावेष्वित्यर्थः । लग्नान् अभिषक्तान् जनान् सत्कामान् ऊर्जितप्रेयसीसंभोगाभिलाषान् तनोतीति ॥

 यथावा--

 पुष्कलसच्छ्रीलक्षणहृद्यो यो बहुविरोचनाभिख्यः । विद्युद्भाजयतु हरिस्स वृत्रसंहननभिदुरवरहेतिः ॥ ८७७ ॥

 अत्र भगवान् प्रस्तुतः इन्द्रस्सूर्यश्चन्द्रो विद्युत्प्रकाशश्चाप्रस्तुताः । एतेषां पञ्चानां श्लेष इति पूर्वोदाहरणाद्विशेषः । तथाहि, भगवत्पक्षे-- यः हरिः पुष्कले अतिशोभने सती च सच्च