पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
96
अलंकारमणिहारे

रक्षेः । अवतेर्लिङ्मध्यमैकवचनम् । स पुमान् देवेशानां लोकपालानामप्यधीशः विदितः प्रसिद्धः स्यात् । देशाधीशः देशानां ऐहलौकिकानां विषयाणां 'देशविषयौ' इत्यमरः । अधीशः राजा स्यादिति किमुत किमु वक्तव्यम् । नैतदाश्चर्यमिति भावः । इह अस्मिंस्त्वद्रक्षिते पुंसि विषये दृष्टं ऐहिकं फलं देशाधीशतावाप्तिरूपं अदृष्टं देवेशाधीशतावाप्तिरूपमामुष्मिकं फलं चेति वैपरीत्येन योज्यम् । वयं त्वत्प्रभावाभिज्ञा इति भावः । अब्रूम अवोचाम ।

 पक्षे-- जगदीशवल्लभेऽयमित्यत्र अयमिति छेदः। देवेशाधीशः देवेशाधीशशब्दः विदितस्स्यात् त्वया ज्ञात एव भवेत् । सोऽयं उक्तो देवेशाधीशशब्द एव अवेः वेकाररहितस्सन् सेः सयौ सयः इतिवदवेश्शब्द एदन्तः । देशाधीशस्स्यात् देशाधीश इति निष्पद्येत । इह अनयोः देवेशाधीशदेशाधीशशब्दयोः वयं वे इति वर्णं वे इति प्रातिपदिकादमि अयादेशे सयमितिवद्द्वितीयैकवचनं दृष्टं देवेशाधीशशब्दे श्रुतं अदृष्टं देशाधीशशब्दे अश्रुतं च यथाक्रमं अब्रूमेति । काव्यार्थापत्तिसंकीर्णोऽयम् । एवं प्रागुपदर्शितेऽषूदाहरणेषु यथासंभवमलंकारान्तरसंकीर्णत्वं प्रतिभाशालिभिरुन्नेयम् ॥

 यथावा--

 श्रीरम्या सैकावळ्यभिख्यया भात्यलंकृतिश्श्लाघ्या । साधुकृतार्थश्रेणीगृहीतमुक्ताकृतिर्यस्याः ॥

 अत्र प्रस्तुतायाः श्रियः अप्रस्तुतयोः मुक्तावळ्येकावळ्यलंकारयोश्चेत्यर्थत्रयस्य श्लेष इति विशेषः । तथाहि, श्रीपक्षे— श्रीः रम्या सा एका वळ्यभिख्यया भाति अलं कृतिश्लाघ्या