पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
94
अलंकारमणिहारे

सचिवभूपाः चमूपतिमन्त्रिराजानः यथायोगं स्युः भगवत्कटाक्षगोचराणां किं दुर्लभमिति भावः ।

 पक्षे-- हे भगवन् ! हे श्रीमन् ! हे विधो ! हे इन्दो ! तव यत्रक्ववा राशौ स्थितस्य तवेति भावः । अस्तारिपरिभवस्थितिभिः अस्तं सप्तमो राशिः अरिः षष्ठः परिभवोऽष्टमः । 'षष्ठं क्षतार्याह्वयं जामित्रास्तकळत्रमन्मथमदद्यूनाभिधं सप्तमम् । रन्ध्रायुर्मरणं पराभवमृतिस्थानं वदन्त्यष्टमम्' इति माधवीयोक्तेः । तेषु स्थानेषु स्थितिर्येषां तैः तथोक्तैः सौम्यैः शुभैः बुधगुरुशुक्रैः ज्योतिर्भिः ताराग्रहेः । कोशस्तूक्तः । अधियोगे सर्वैश्शुभग्रहैर्यत्रक्ववा स्थिताच्चन्द्रात् षष्ठसप्तमाष्टमराशिवर्तिभिः अधियोगो नाम राजयोगः क्रियते । तस्मिन् राजयोगे जाताः जन्मवन्तः सेनेशसचिवभूपाः क्रमात्स्युः ॥

सौम्यैस्समरारिनिधनेष्वधियोग इन्दोः ।
तस्मिंश्चमूपसचिवक्षितिपालजन्म ॥

इति वराहमिहिरोक्तेरिति भावः ॥

 यथावा--

 पामरमपि पदलग्नं लघु कृत्वा निर्ममन्ततस्तमपि । परमात्मा कविवर्यो दर्शयति जनैस्सुदुर्गमं पारम् ॥ ८७२ ॥

 अत्र भगवान् प्रस्तुतः कविवर्यस्त्वप्रस्तुतः । तयोः श्लेषः । तथाहि-- कविवर्यः कविभिर्विद्वद्भिर्वरणीयः । यद्वा-- कवीनां वरेण्यः, पञ्चरात्रगीतादिप्रणेतृत्वात् । ‘कविर्मनीषी’ इति श्रुतेः । परमात्मा 'तस्याश्शिखाया मध्ये परमात्मा’ इति श्रुतस्सर्वान्तरात्मा नारायणः पदलग्नं स्वचरणं शरणं गतं पामरमपि