पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
91
श्लेषसरः (२८)

मानां प्रतिलोमजानां वा ‘अच्प्रत्यन्ववपूर्वात्सामलोम्नः' इत्युभयत्रापि समासान्तोऽच् । ‘नस्तद्धिते’ इति टिलोपः । उत्कृष्टवर्णजात्पुंसोऽपकृष्टवर्णजस्त्रियां जाताः अनुलोमजाः । अपकृष्टवर्णजात्पुरुषादुत्कृष्टवर्णजस्त्रियां जाताः प्रतिलोमजाः । तथा च स्मर्यते याज्ञवल्क्येन--

विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशस्स्त्रियाम् ।
अम्बष्ठश्शूद्र्यां निषादो जातः पारशवोऽपि वा ॥
वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ ।
शूद्रायां करणो वैश्याद्विन्नास्वेष विधिस्स्मृतः ॥
ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्स्मृतः ।
शूद्राज्जातस्तु चण्डालस्सर्वकर्मबहिष्कृतः ॥
क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव च ।
शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥
माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥

इति । असन्तः प्रतिलोमजाः सन्तस्त्वनुलोमजा इति विज्ञेया इत्यर्थः । तुल्यार्थदः समानपुरुषार्थदायी वर्णाश्रमादिकक्ष्याविभागेन विनैव तत्तदभीप्सितसर्वविधपुरुषार्थप्रद इत्यर्थः ॥

अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता ।
प्रपत्तौ सर्ववर्णानां सात्विकत्वादियोगिनः ।
सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ।

इति भगवत्प्रपदनस्य सर्वाधिकारिकत्वसर्वपुरुषार्थप्रदत्वोक्तेः । एतदभिप्रायेणैव हि मूले भगवतोऽखिलात्मन्निति संबोधनम् ॥

 पक्षे-- सन्न्यासः सन्न्यास इति शब्दः । अयं च समोमकारस्यानुस्वारे 'वा पदान्तस्य' इति वैकल्पिकपरसवर्णे स-