पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
23
अनुमानसरः (११३)

 हे उत्तमवरवर्णीनि! वरः श्रेष्ठः वर्णः सोऽस्या अस्तीति वरवर्णिनी । प्रशंसायां मत्वर्थीय इनिः । ‘उत्तमा वरवर्णिनी' इत्यमरः । उत्तमा च सा वरवर्णिनी च ‘सन्महत्परमोत्तम' इत्यादिना समासः । तस्यास्संबुद्धिः । तास्वप्युत्तमेत्यर्थः । 'सीता नारीणामुत्तमा वधूः' इत्येतदत्र स्मर्तव्यम् । हे श्रीः ! यत् यस्मात् निशा हरिद्रा ‘निशाख्या कञ्चनी पीता हरिद्रा वरवर्णिनी' इत्यमरः । तावकं वर्णं प्रेप्सुः लिप्सुस्सती आत्मनः केवलवरवर्णिनीत्वेन उत्तमवरवर्णिन्यास्तव ‘हिरण्यवर्णां, आदित्यवर्णे’ इत्यादिश्रुतं अत्युत्तमं वर्णं प्राप्तुमिच्छन्तीति भावः । पुरतः तवाग्रतः नीतैव प्रापितमात्रैव न तु स्वाभीप्सितलाभार्थमुद्युञ्जानेति भावः । शान्तिरस्यास्तीति शान्तिमत् 'शरदः कृतार्थता' इत्यादाविव सामान्ये नपुंसकम् तस्य भावः शान्तिमत्वं शान्तत्वमित्यर्थः । परोक्षं त्वद्वर्णलाभे सुलभं मनोरथमात्रं कृतवती । 'सूर्यां हिरण्मयीम्’ इति सूर्यवत्प्रकाशमानत्वेन सूर्यरूपत्वेन वा श्रुतायास्तव संनिधौ विच्छायत्वमभजतेति भावः । प्रसिद्धं हि सूर्यप्रभालीढाया हरिद्राया विच्छायत्वम् । तत् तस्मात् अन्तरा त्वद्वर्णप्रेप्सात्वत्पुरोनयनयोर्मध्ये । 'अथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः' इत्यमरः । वर्णस्य स्वप्रेप्सितस्य तावकवर्णस्येति भावः । आप्तौ प्राप्तौ विषये निराशा निर्गळिततृष्णैवेति मन्ये इति भावः ॥

 पक्षे— निशा निशेति शब्दः पुरतः प्रथमभागे नीता नि इत्याकारकवर्णेन इता शा शाइत्याकारो वर्णः अन्तिमः जघन्यः यस्य तत् तस्य भावं शान्तिमत्त्वं अगात् निशाशब्दस्य उक्तवर्णद्वयात्मकत्वादिति भावः । अन्ते स्वघटकनिशावर्णयोरन्तरे 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । रा