पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
17
अनुमानसरः (११३)

अन्तर्गतभाः पश्चाद्विन्यस्तकरो यतसदा विमुखः ॥

 हे शौरे! अयं विभाकरः भानुमान् । पक्षे विभाकर इति शब्दः त्वत्तेजसा पराभूतः अतएव अन्तर्गतभाः निमग्नतेजाः अन्यत्र अन्तर्गतः मध्यभागस्थितः भाः भा इत्याकारको वर्णः यस्य स तथोक्तः । अस्मिन् पक्षे भाशब्दस्य आकारान्तस्य वर्णपरत्वेन स्त्रीप्रत्ययान्तत्वविरहान्नोपसर्जनह्रस्वः । पश्चात् विन्यस्ताः कराः येन स तथोक्तः निरस्तपौरुषत्वेनानुत्साहतया शरीरपश्चार्धसमर्पितपाणिरिति तदनुभावोक्तिरियम् । इतरत्र पश्चात् चरमभागे विन्यस्तौ करौ ककारेरफौ यस्य स तथोक्तः सदा विमुखः अवमानेन न्यक्कृतवदन इति भावः । पक्षे विकारो मुखे यस्य स तथोक्तः । विभाकरशब्दस्य उपदर्शितवर्णात्मकत्वादिति भावः । अयं विभाकरः भगवत्तेजसा पराभूतः अन्तर्गतप्रकाशत्वादिभ्यो हेतुभ्य इत्यनुमानशरीरम् । इदं च उक्तप्रकारशब्दार्थतादात्म्यावलीढश्लेषोत्तेजितं पूर्ववदेव । एवमग्रेऽप्यूह्यम् ॥

 यथावा--

 गजराजो गमनेन द्विजराजः पर्यभावि वदनेन । हरितरुणि भवत्या तन्मन्ये तावन्तरा जरालीढौ ॥

 हे हरितरुणि ! इदं गजराजादिपराभवपटीयस्त्वद्योतनाय । अन्तरा मध्ये वयस्येव । मध्यभागे इति वस्तुस्थितिः । जरालीढौ जरसा वार्धकेन आलीढौ व्याप्तौ । त्वत्कृतपराभवनिमित्तकमनोव्यथया शीघ्रमेव जीर्णावभूतामिति भावः । पक्षे गजराजद्विजराजशब्दौ मध्ये ज रा इति वर्णद्वयेन व्याप्तावित्यर्थः । अत्र गजराजद्विजराजयोरन्तरा जरालीढत्वे श्रीवदनगमनपराभूतत्वेन हेतुना साध्येते ।

 ALANKARA IV.
3