पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
218
अलङ्कारमणिहारे

 यथावा--

 विन्देमहि गोविन्दे कन्देऽरिदवस्य भुवनतरुकन्दे । मन्देतराममन्दे कुन्देड्यरदे रुचिं हृदि मुकुन्दे ॥ २२९५ ॥

 अरिदवस्य कन्दे जलदे भुवनतरोः कन्दे मूलभूते ‘कन्दस्तु सूरणे सस्यमूले जलधरेऽपिच' इति मेदिनी । अमन्दे पटीयसि कुन्देड्यरदे कुन्दश्लाघ्यदशने मुकुन्दे विषये हृदि रुचिं अभिरतिं विन्देमहीति योजना ॥

 यथावा--

 दाता धियमवदातां दाताखिलसंशयामसुरदाता । पाता श्रियमनिपातां पाता कमलाधरस्य मां पाता ॥ २२९६ ॥

 अवदातां शुद्धां अतएव दातः छिन्नः अखिलसंशयः यया तां ‘दो अवखण्डने’ इति धातोः कर्मणि क्तः ‘कृत्तं दातम्' इत्यमरः । धियं दाता 'ददामि बुद्धियोगं तं' इति गानात् । अवदाताशब्दो विशुद्धवाची । दातेत्यस्य तृन्नन्तया तद्योगे ‘न लोक’ इत्यादिना षष्ठीनिषेधः । अनेन तृना भगवतो धीदानताच्छील्यं द्योत्यते । तस्य 'आ क्वेस्त्तच्छील' इत्यादिना ताच्छील्ये विधानात् । असुराणां दाता छेत्ता । द्यतेस्तृच् । शैषिकषष्ठ्यास्समासः । श्रियं संपदं अनिपातां सतीं पाता रक्षिता । कमलायाः श्रियः अधरस्य पाता रमाधररसास्वादविधाता भगवान् श्रीनिवास इति विशेषणबलाल्लभ्यते । मां पाता रक्षिष्यति । पाधातोर्लुट् । अत्र पद्यपच्चकेऽपि