पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
10
अलङ्कारमणिहारे

ष्फारे । अपि विज्वलति भुजोष्मणि वेपथुमभजन्त हन्त दैत्येन्द्राः ॥ २०१५ ॥

 अत्र दैत्येन्द्रगतत्रासरूपभावोदयः कविगतभगवद्विषयकरतिभावस्याङ्गम् ॥

इत्यलंकारमणिहारे भवोदयसरो नवोत्तरशततमः.



अथ भावसंधिसरः (११०)


भावाङ्गत्वे भावसंधेर्भावसंधिरलंकृतिः ॥

 'भावसंधिस्तु भावानां तुल्यानां व्यङ्ग्यता यदि’ इत्युक्तलक्षणभावसंधेर्भावाङ्गत्वे भावसंधिरलंकारः ॥

 यथा--

 भुजबलहृतभैष्मीमुखविलोकनोत्फुल्ललोचनद्वंद्वः । चैद्याद्यभियोगवशाद्गृह्णञ् शार्ङ्गं च जयति यदुवीरः ॥ २०१६ ॥

 अत्र भुजबलहृतेत्यादिना शृङ्गाररसव्यभिचारिणो हर्षस्य चैद्याद्यभियोगवशतश्शार्ङ्गग्रहणेनानुभावेन वीररसव्यभिचारिण आवेगामर्षादेश्च संभूयवृत्तेः भावसंधिः । स च भगवद्विषयः कविगतरतिभावस्याङ्गम् ॥

इत्यलंकारमणिहारे भावसंधिसरो दशोत्तरशततमः. ।