पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
19
श्लेषसरः (२८)

दरतः । हृदयेद्वितीयवर्णो गुहाशयो वसतु मे स मुचुकुन्दोऽयम् ॥ ८२६ ॥

 अत्र प्रस्तुतयोर्मुचुकुन्दमुकुन्दयोश्श्लेषः । सः मान्धातृतनयतया सैनापत्येन देवपरित्रातृतया च प्रथितः यः अधीशः अधिराजः सार्वभौमा मुचुकुन्द इत्यर्थः । पुरा कालयवनविद्रावणावसरे । दामोदरतः आद्यादित्वात्पञ्चम्यास्तसिः । भगवतः श्रीकृष्णात् अनघतरं वरं आददे स्वीकृतवान् । गुहाशयः गिरिगह्वरशायी द्वितीयो वर्णो यस्य सः द्वितीयवर्णः क्षत्रवर्णजन्मा सोऽयं मुचुकुन्दः । पक्षे-- सदामोदरत इति समस्तं पदं प्रथमैकवचनान्तम् । सतां आमोदे प्रहर्षणे रतः आसक्तः यः भगवान् । पुरा अधीशः । अधीट्शब्दोऽयं षष्ठ्येकवचनान्तः । अधिराजस्य तस्यैव मुचुकुन्दस्येत्यर्थः । संबन्धसामान्ये षष्ठी । अनघतरं वरं ददे इति छेदः । दत्तवान् । गुहाशयः सकलचेतनहृदयगुहानिविष्टः ‘गुहाहितं गह्वरेष्ठं' इत्यादिश्रुतेः । अद्वितीयवर्ण इति छेदः । सोऽयं अद्वितीयवर्णः द्वितीयवर्णरद्दितः मुचुकुन्दः मुकुन्द इत्यर्थः । शब्दार्थयोस्तादात्म्यात् । मे मम हृदये वसतु ध्यानपथाध्वनीनो भवत्वित्यर्थः । मुचुकुन्दस्याप्रकृतत्वाभिसन्धौ त्विदं प्रकृताप्रकृतश्लेषस्योदाहरणं भविष्यतीत्यनुसन्धेयम् ॥

 यथावा--

 प्राग्भवपावकविद्धं जहतो ब्रह्माणमप्यभद्रममी । गोविन्द नन्दनन्दनजयन्त्युपात्तव्रताः प्रियतमास्ते ॥ ८२७ ॥