पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
267
आक्षेपालङ्कारसरः (३४)

नस्सन् नायिकान्तरेष्विव मय्यननुरक्तोऽसि किं विधेयमिति दैन्यं द्योतयति ॥

निषेधाभासवद्विध्याभासोऽप्याक्षेप इष्यते ।

 तुल्यन्यायतया असत्येन विधिना निषेधस्याक्षेपे अपरोऽप्याक्षेप इत्यर्थः । अत्र अनिष्टोऽर्थः तस्य विधिः तस्याप्याभासत्वं अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यत इत्याहुः ॥

 यथा--

 दैवात्सत्पथमुपगतमेवं मां चेदुपेक्षसे बाढम् । भूयोऽप्यपथगमेनं श्रेयसि योजयसि कथमिति बिभेमि ॥ १०६ ४ ॥

 इदानीं यादृच्छिकादिसुकृतवशात्सन्मार्गसमीपगतं मां त्वमुपक्षसे चेत् बाढं तथैवोपेक्षस्वेत्यर्थः ।बाढमित्यङ्गीकारेऽव्ययम् । अत्र च कस्यचिद्भगवद्भक्तस्य परमपुरुषं प्रत्युपेक्षाप्रार्थनं विधीयमानमनुपपद्यमानं तद्विध्याभासतया निषेधमेवावगमयति । उपेक्षस्वेति विधिर्व्यक्तः । मोपेक्षिष्ठा इति निषेधस्तु भूयोऽपि कर्मवशादपथप्रवृत्तमेनं मामुचिते श्रेयसि प्रवर्तयितुं तव महान् प्रयासस्स्यादिति भयप्रदर्शनेन तिरोहितः । अत एव

"आक्षेपोऽन्यो विधौ व्यक्ते प्रतिषेधे तिरोहिते" ।

इति कुवलयानन्दकारैरयं प्रकारो लक्षितः ॥

इत्यलङ्कारमणिहारे आक्षेपसरश्चतुस्त्रिंशः ॥


    1. 34end##