पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
266
अलंकारमणिहारे

 अत्र भगवद्गुणैरनानन्दितरि तैरानन्दितरि च मानुषे न मानुष इति निषेधोऽनुपपद्यमानस्तयोः क्रमेण पिशाचदेवतुल्यतारूपविशेषमाक्षिपति ॥

 यथावा--

 न वदामि चाटु शौरे तव दासानां नृणां पुरन्ध्रिगणाः । मणिसौधाग्रगता विधुलक्ष्म दृशोरञ्जनार्थमाददते ॥ १०६२ ॥

 अत्र स्तोतुः कवेर्वचने प्रथमचरणे चाटुवादित्वनिषेधो बाधितो मृषावादित्वनिषेधात्मना पर्यवस्यन्नवशिष्टचरणत्रितयगतस्यार्थस्य सत्यत्वरूपं विशेषं व्यनक्ति । सत्यत्वं चास्य कविप्रौढोक्तिसिद्धम् । ‘चटु चाटु प्रिये वाक्ये' इति तत्वबोधिन्यामव्ययेषु पाठात् चाटु इत्येतदव्ययम् । क्लीबं वा । ‘अस्त्री चाटुश्चटुः’ इति कोशात् ।

 यथावा--

 गोविन्द नन्दनन्दन सुन्दर न त्वां समुत्सहे द्रष्टुम् । पश्यन्तु स्वैरं तास्स्वै रन्ता या विनोदयसि विहृतैः ॥ १०६३ ॥

 ताः ललनाः स्वां स्वैरं यथेप्सितं पश्यन्तु । चतुर्थचरणे स्वैः रन्ता याः इति छेदः । रन्ता विलासी त्वं याः ललनाः स्वैः निजैः विहृतैः विहारैः भावे क्तः विनोदयसि ताः पश्यन्त्वित्यन्वयः । अत्र भगवन्तं नन्दनन्दनं पश्यन्त्याः कस्याश्चिद्गोपमहिळाया उक्तौ आत्मनि तद्धर्शनोत्साहनिषेधोऽनुपपद्यमा-