जरदिभ एव हि मत्तोऽप्यासीत्प्रेष्ठस्तवेत्युपालम्भः । इति दोषविचारजडाः किं नु ब्रूमस्तवाग्रतो भूमन् ॥ १०५९ ॥
हे भूमन्निति भगवतस्संबोधनम् ॥ इदं विशेषकं
द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिश्श्लोकेर्विशेषकम् । |
इति लक्षणात् । अत्र पाहीत्यादेरुच्यमानस्यैव नियोक्तरि त्वयि न युक्तमित्यादिना निषेधस्सर्वधाSपि त्वय्यर्पितभरा मुग्धतरा वयं त्वया नोपेक्षितुमर्हा इति विशेषमाक्षिपति ॥
उक्तविषयो वस्तुनिषेधात्मक अक्षेपो यथा--
सर्वज्ञाहं न कविस्सर्वसुहृत्त्वमसि किं मयाऽऽवेद्यम् । दीने वाऽदीने वा स्थाने विदधति भवादृशाः करुणाम् ॥ १०६० ॥
सर्वज्ञेति भगवतस्सम्बोधनम् ॥ अत्र स्तोतरि कवौ नाहं कविरिति निषेधोऽनुपपद्यमानः अतिशयात्युक्त्यादिपूर्वकासंभावितार्थवर्णनपरिहारेण तथ्यवादित्वे विश्राम्यन् सर्वसुहृदा सर्वज्ञेन त्वया दीनोऽयं जनो नोपेक्षणीय इति सामान्यमुखेन विशेषमाक्षिपति । अत्र कविरूपवस्तुनिषेधः ॥
यथावा--
नूनं न मानुषोऽसावानन्दं यो गुणैस्तव न विन्देत् । सत्यं स च न मनुष्यो योऽत्यन्तं तैर्हरे सदाऽऽनन्देत् ॥ १०६१ ॥