पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
263
आक्षेपालंकारसरः (३४)

तं आक्षेपं इत्यलंकारसर्वस्वकारादय आहुः । अतएव ‘निषेधाभासमाक्षेपं बुधाः केचन मन्वते’ इति कुवलयानन्दे लक्षितम् । सोऽयं द्विविधः वक्ष्यमाणविषयः उक्तविषयश्चेति । तत्र यदि सामान्यतो वर्णनमुपक्षिप्य निषेधोऽभिधीयते तदा वक्ष्यमाणविषयः । अशक्यवक्तव्यत्वरूपविशेषप्रतीतिफलक उक्तविषय आक्षेपः अयमपि द्विविधः । क्वचिद्वस्तुमात्रनिषेधात् क्वचिद्वस्तुकथननिषेधात् । वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एव । व्युत्क्रमेणोदाहरणानि ॥

 यथा--

 शृणु मम निर्वेदकथामणुमात्रीं ते निवेदयिष्यामि । घृणयाऽनाघ्राते त्वयि भणितव्यं नाम नाथ किंवाऽस्ति ॥ १०५५ ॥

 अत्र भगवन्तं प्रति कस्यचिन्निर्विण्णस्य वचने शृणु मम निर्वेदकथामिति सामान्यत उपक्रम्य भणितव्यं नाम नाथ किंवाऽस्तीति निषेधात्यन्तिकखेदोद्वेल्लनत्वेन दुर्वचतया अशक्यवक्तव्यताप्रतीतिफलको वक्ष्यमाणविषयोऽसावाक्षेपः वस्तुकथननिषेधात्मकः ॥

 दव इव भव इह खिद्ये मृग इव मृगपतिनगाग्रविद्युत्वन् । अलमलमनया कथयाऽप्यनादराणामवाकिनामग्रे ॥ १०५६ ॥

 वाचाऽप्यादरमकुर्वाणानामग्रे स्वदैन्यकथनं निष्प्रयोजनं त्वमप्यवाक्यनादर इति हि श्रुत इति भावः । अत्र ‘सर्वमिद-