नासीन्नास्ति च भवतो नाथ समं वस्तु वेधसस्सर्गे । अग्रेऽपि यथापूर्वं स्रष्टाऽयं किं तदाऽपि तल्लभ्यम् ॥ १५५ ॥
तद्वस्तु नैव ससृजे न सृज्यते स्रक्ष्यतेऽपि विश्वसृजा । यत्र भवतः प्ररोहेदुपमालवलेशगन्धोपि ॥ १५६ ॥
यथा वा--
अस्ति समानं शौरेर्वस्त्विति मूर्खो ब्रवीति चेद्ब्रूताम् । यत्र क्व वा समानं लभेत किमसावटन्नपि जगन्ति ॥ १५७ ॥
सोऽसौ मूर्खः जगन्ति सर्वाण्यटन्नपि यत्र क्व वा मानं भगवत्समानवस्तुसत्तायां प्रमाणं लभेत किं न लभेतैवेत्यर्थः । यद्वा मानं पूजां लभेत किं, भगवत इतरसाधर्म्यं वक्तुः क्वापि पूज्यता न स्यादेवेति भावः । पक्षे असौ मूर्खः समानं भगवतस्सदृशं वस्तु यत्र क्व वा न लभेतैवेत्यर्थः । अत्र श्लेषचमत्कारः पूर्वोदाहरणेभ्यो विशेषः ॥
यथा वा--
त्वं सद्वितीय एव हि सृजसि जगत्पासि संहरिष्यसि च । तदपि श्रुतिरब्जेक्षण वदति त्वामद्वितीयमेव बत ॥ १५८ ॥