निकामं तापैः आध्यात्मिकादिभिः आतपजनितैश्च आतुराः, तमसा तमोगुणेन तिमिरेण च प्रत्यस्ता निरस्ता दृष्टिः ज्ञानं चक्षुश्च येषां ते तथोक्ताः स्थित्वा कंचित्कालमिति भावः । दैवात् भाग्यविशेषात् विधोः भगवतः उदये अनवरतभावनामूलकप्रत्यक्षतापत्तौ । पक्षे--विधोः चन्द्रमसः आविर्भावे सति कतिचिदेव द्विजाः भाग्यशालिनो विप्रादय एव नान्ये भाग्यदवीयांस इति भावः । पक्षे--चकोरादयः खगविशेषा एव नन्दन्ति अत्रोदाहरणद्वयेऽनेकार्थानामपि पदानां प्रकरणेन कृतेऽपि शक्तिसंकोचे तन्मूलकेन ध्वननेन प्रतीयमानस्य महाराजरूपस्य खगविशेषरूपस्य चार्थान्तरस्थाप्रस्तुतस्याभिधानं मा प्रसाङ्क्षीदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यते । अत्र श्लिष्टानां कटकादिशब्दानां नितम्बादिशब्दपारवृत्त्यसहिष्णुतया शब्दशक्तिमूलानुध्वननविषयोऽसावुपमा ॥
अर्थशक्तिमूलानुध्वननविषयो यथा--
असमानरोचिरहमित्यभिमानस्तव घनाघन महीयान् । ननु नामाढौकिष्ठा न मनागपि वा फणाभृदचलशिखाम् ॥ १४४ ॥
यथा वा--
रत्नाकर इति गर्वं यत्नाद्विजहीहि मम गिरोदन्वन् । न चलसि पदात्पदं वा ना(क्वा)द्राक्षीश्श्रीनिवासकोशगृहम् ॥ १४५ ॥
अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययात्प्राधान्येनार्थशक्त्या उपमैव ध्वन्यते ॥