पृष्ठम्:अलङ्कारमणिहारः.pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
75
उपमालंकारसरः (१)

स्यानुगामितानियमादिति । तन्न– ‘मलय इव जगति पाण्डुर्वल्मीक इवाधिधरणि धृतराष्ट्रः' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानां सर्पाणां दुर्योधनादीनां बिम्बप्रतिबिम्बभावस्यैव प्रतिपत्तेः । न च शब्देनोपात्तत्वं बिम्बप्रतिबिम्बभावे तन्त्रमित्याग्रहो विदुषामुचितः, श्रौतत्वार्थत्वाभ्यां बिम्बप्रतिबिम्बभावस्य द्वैविध्यौचित्यात् । अतएवाप्रस्तुतप्रशंसादौ प्रकृताप्रकृतवाक्यार्थयोरौपम्यमवयवबिम्बप्रतिबिम्बभावमूलं संगच्छते” इत्यभाणीत् । अयं चात्र विशेषः-'उभयमध्ये प्रतिबिम्बस्यैवोपादाने उपमाने धर्महानिर्दोषः तत्र तत्स्थानीयधर्मानुक्तेः । बिम्बमात्रोपादाने तूपमाने धर्माधिक्यं दोषः उपमेये तत्स्थानीयधर्मानुक्तेः । तस्माद्बिम्बप्रतिबिम्बभावापन्नयोर्द्वयोरेव शाब्दत्वं द्वयोरेव वाऽर्थत्वं विवक्षितं, न त्वेकस्य शाब्दत्वमन्यस्यार्थत्वमिति तत्त्वम्’ इति वदन्ति । एवंच क्वचिदर्थगम्योऽपि बिम्बप्रतिबिम्बभावापन्नो धर्मस्सम्भवतीति सिद्धम् ॥

 यथा--

 संक्रन्दननन्दनवनभूमिरिवानन्दभूमिधरभूमिः । व्यालेशाचलरमणः प्रालेयाचलवरेण्य इव ॥ ११८

 आनन्दभूमिधरश्शेषाद्रिः आनन्दाद्रिरिति तन्नामसु पाठात् । वचनं त्वेकोनत्रिंशे ‘चिन्तामणिधरणीभृति’ इति श्लोके उदाहाष्मर्धस्तात् । अत्र नन्दनवनशेषाचलभूम्योः हिमाचलश्रीनिवासयोश्चानुगाम्यादिधर्मान्तराप्रत्ययेन कल्पतरोश्श्रीनिवासस्य च गङ्गाया दयायाश्च बिम्बप्रतिबिम्बभावस्यैव गम्यमानत्वादुपमानिष्पत्तिः ॥