पृष्ठम्:अलङ्कारमणिहारः.pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
67
उपमालंकारसरः (१)

 समासभेदाश्रयणमूलको धर्मो यथा--

 मांसलशङ्खसुदर्शनहंसावर्ता सनाभिनाळीका । शमितामितभवदमुना यमुनालहरीव तव तनुश्शौरे ॥ १०३ ॥

 मांसलो पृथुलौ शङ्खसुदर्शनौ हंसावर्ताविव शङ्खसुदर्शनहंसावर्तौ यस्यां सा तथोक्ता । अन्यत्र- शङ्खसुदर्शनाविव हंसावर्ताविति समासः । नाभेर्नाळीकं तेन सह वर्तत इति तथोक्ता । अन्यत्र नाभ्या मध्यस्थकर्णिकया सह वर्तन्त इति तथोक्तानि नाळीकानि पद्मानि यस्यां सेति वा नाभितुल्यं नाळीकं तेन सह वर्तत इति वा समासः । भवः दमुनाः अग्निरिवेति । पक्षे--भवसदृशः दमुनाः इति समसः । एवं समासभेदाश्रयणेन समानधर्मता । केचिदिमं साधारणधर्मं पृथङ्नाद्रियन्ते, समासभेदनिबन्धनयोरर्थयोश्लेषभित्तिकाभेदाध्यवसायेनैकधर्मतासम्पादनात् । श्लेषात्मके समानधर्म एवास्याप्यन्तर्भाव इति तेषामाशयः ॥

 मिश्रणेष्वनुगामित्वबिम्बप्रतिबिम्बभावापन्नधर्मयोर्मिश्रणं यथा-

 फलवानिव धरणिरुहो जलवानिव जाह्नवीह्रदो जगति । बलवानिव धरणिपतिर्जलजेक्षणभक्तिमान् जनश्श्लाघ्यः ॥ १०४ ॥

 अत्र भगवद्भक्तिमत्त्व फलवत्त्वादि च बिम्बप्रतिबिम्बभावमापन्नौ धर्मौ श्लाघ्यत्वे अनुगामिनि धर्मे अभेदमासाद्य स्थितौ ॥