पृष्ठम्:अलङ्कारमणिहारः.pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
65
उपमालंकारसरः (१)

स्तुभावस्य च सर्वैरालंकारिकैस्स्वीकारो विरुध्येत । अतो यथाऽवस्थितमेव साधु ॥

 असन्नप्युपचरितो यथा--  द्रुहिणस्मरहरमुखसुरमहिमानोऽप्यहह तावकमहिम्नि । जलजविलोचन जलधौ कुलाचला इव किलाभिमज्जन्ति ॥ ९९ ॥

 अत्र मज्जनं मूर्तद्रव्यधर्मो महिमसूपचरितः ॥

 यथा वा--

 प्रसभं प्रवेशितमपि प्रायश्चरिते तवेश शठहृदयम् । नैव द्रवति समुद्रेऽप्ययो घनतरं पयोजनयन यथा ॥ १०० ॥

 प्रसभं प्रवेशितमित्यस्य उत्तरार्धे समुद्रे इत्यत्राप्यन्वयः । घनतरं अयो यथा कालायसमिवेत्यर्थः । अत्र प्रवेशनद्रवयोर्मूर्तद्रव्यधर्मतया हृदये उपचारः ॥

 श्लेषात्मको यथा--

 मञ्जुलतमालसर्च्छ्रीरञ्जनधरणीधरेशहृदयगता। वनमालेव विचित्रा वनमाला प्रसृमरामोदा ॥ १०१॥

 मञ्जुलैः तमालैः तापिञ्छैः सती प्रशस्ता श्रीश्शोभा यस्यास्सा तथोक्ता । पक्षे– मञ्जुलतमा लसर्च्छ्रीरिति छेदः, म-

  ALANKARA
9