पृष्ठम्:अलङ्कारमणिहारः.pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
64
अलंकारमणिहारे

द्यस्ति तदा शुद्धवस्तुप्रतिवस्तुभावापन्नोप्येष षष्ठो धर्म इत्यवादीत् । एतदभिप्रायानुरोधेनैवास्माभिश्शुद्धवस्तुप्रतिवस्तुभावापन्नोऽपि भेदोऽधस्तात्परिगणितः ॥

 स यथा--

 विमले विलोचने तव विशदशरद्विकसिताम्बुजायेते । मृगराजाह्वयविलसन्नगराजाधीश्वरस्य जायेते ॥ ९८ ॥

 मृगराजाह्वयविलसन्नगराजाधीश्वरस्य श्रीवेंकटाद्रिनेतुः जाये सहधर्मिणि ते विमले विलोचने विशदे स्वच्छे शरद्विकसिताम्बुजे इवाचरतः विशदशरद्विकसिताम्बुजायेते, क्यङन्ताल्लट्प्रथमपुरुषद्विवचनम् । अत्र विमलत्वविशदत्वयोर्वस्तुत एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वमिति शुद्धवस्तुप्रतिवस्तुभावापन्नता धर्मस्यति ध्येयम् ॥

 न च ‘कमलभुजयुगळाञ्चितपरितःपरिरम्भम्' इत्यादौ मरकतभगवतोरुपमायां धर्मान्तरस्यानवगमात्कमलाभुजयुगळ कनकशलाकयोः परिरब्धत्ववलयितत्वयोश्च बिम्बप्रतिबिम्बभावो यथाऽवश्यमभ्युपेयः प्रकृते तु न तथा वस्तुप्रतिवस्तुभावः, विलोचनाम्बुजयोर्मनोहरत्वरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम् । एवं तर्हि ‘यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या' इति भवभूतिपद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन निर्वाहे कन्धरावृन्तयोर्बिम्बप्रतिबिम्बभावस्य वलितत्वावृत्तत्वयोर्वस्तुप्रतिव-