पृष्ठम्:अलङ्कारमणिहारः.pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
63
उपमालंकारसरः (१)

 यथा वा--

 असितैः कुसुमैर्मसृणाश्शालाबिभ्रत्तमालसाल इव । नीलैर्मणिभिर्निबिडा बाहा दधदहिगिरेःपतिर्जयति ॥ ९७ ॥

 अत्र कुसुममणिविशेषणयोरसितत्वनीलत्वयोस्तद्विशेष्ययोश्च मसृणत्वनिबिडत्वयोः एवमेव शालाबाहाविशेषणत्वमापन्नयोः मसृणत्वस्निग्धत्वयोः तद्विशेष्ययोर्बिभ्रत्त्वदधत्त्वयोश्च वस्तुप्रतिवस्तुभावेनोभयतस्संपुटितः कुसुमानां मणीनां शालानां बाहानां च बिम्बप्रतिबिम्बभाव इत्ययमपि वस्तुप्रतिवस्तुभावकरम्भित एव । पूर्वत्र संपुटित एको बिम्बप्रतिबिम्बभावः इह तु द्वाविति विशेषः । शालाः स्कन्धशाखाः ‘स्कन्धशाखाशाले’ इत्यमरः । स्कन्धान्निर्गता शाखा स्कन्धशाखा स्कन्धो नाम मूलाच्छाखावधिः प्रकाण्डः ‘अस्त्री प्रकाण्डस्स्कन्धस्स्यान्मूलाच्छाखावधेस्तरोः' इत्यमरः । स्कन्धशाखा शाला चेत्येतौ शब्दौ उक्तशाखावाचिनौ । अयं तृतीयः प्रकारो रसगङ्गाधरकारेणोक्तः। चित्रमीमांसायां तु प्रागुक्तौ द्वावेव प्रकारौ दर्शितौ । यथोक्तं तत्र- 'एकस्यैव धर्मस्य सम्बन्धिभेदेन द्विरुपादनं वस्तुप्रतिवस्तुभावः । स तु शुद्धो न सम्भवति किं तु विशेषणतया विशेष्यतया वा सर्वत्र बिम्बप्रतिबिम्बभावकरम्भितः' इति । एवं च शुद्धवस्तुप्रतिवस्तुभावापन्नो धर्मो न संभवतीत्येव ते मन्यन्ते ॥

 रसगङ्गाधरकारस्तु— ‘विमलं वदनं तस्या निष्कलङ्कमृगाङ्कति' इत्यत्र वैमल्यनिष्कलङ्कत्वयोर्वस्तुत एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वं य-