पृष्ठम्:अलङ्कारमणिहारः.pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
62
अलंकारमणिहारे

 यथा वा--

 हीरकुरुविन्दहारप्रसृमररुचिशबलिता तनुलता श्रीः । देव तव गाङ्गसारस्वतपूरविचित्रितेव मित्रसुता ॥ ९४ ॥

 अत्रापि शबलितत्वविचित्रितत्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकयोः हीरकुरुविन्दहाररुचिगाङ्गसारस्वतपूरयोश्च बिम्बप्रतिबिम्बभाव इत्ययमपि तत्कम्भित एव ॥

 तृतीयो यथा--

 शिशिरतरसलिलरुचिरा शशिशेखरमकुटवाहिनीवैषा । शीतलतरकरुणारसमधुराऽहिधुरंधराद्रिनाथवधूः ॥ ९५ ॥

 अत्र विशेषणयोश्शिशिरतरत्वशीतलतरत्वयोः विशेष्ययोः रुचिरत्वमधुरत्वयोश्च वस्तुप्रतिवस्तुभावेनोभयतस्संपुटितस्सलिलकरुणारसयोर्बिम्बप्रतिबिम्बभाव इत्ययमपि तत्करम्भित एव ॥

 यथा वा--

 सुन्दरकुरुविन्दमणीसमुद्गकान्तस्थहीरहारलताम् । मञ्जुलरदनच्छदयुगमध्यगता जयति नाथ दशनाळी ॥ ९६ ॥

 अत्रापि विशेषणयोस्सुन्दरत्वमञ्जुलत्वयोः विशेष्ययोश्चान्तस्थत्वमध्यगतत्वयोः वस्तुप्रतिवस्तुभावेनोभयतस्संपुटितः कुरु विन्दमणीसमुद्गकदशनच्छदयुगयोर्बिम्बप्रतिबिम्बभाव इत्ययमपि तत्कम्भितः ॥