तत्राद्यो यथा--
उपरिचरन्मधुकरकुलकमलनिभं वृषभशैलशिखरशशिन् । उपरिष्टाच्चलदलकं वदनं तव विश्वसम्पदां सदनम् ॥ ९१ ॥
अत्र उपरिचरत्वोपरिष्टाच्चलत्वयोर्वस्तुत एकविधयोरपि पृथक्छब्दाभ्यां निर्देशाद्वस्तुप्रतिवस्तुभावः तद्विशेषणकयोर्मधुकरकुलालकयोर्बिम्बप्रतिबिम्बभाव इति तत्करम्भितत्वं धर्मस्य ॥
द्वितीयो यथा--
स्मितरुचिमसृणितमधरं फणधरधरणीधराधिनेतुर्नः । दुग्धोदधिमुग्धोर्मिस्निग्धं विद्रुममिवावलेढि मनः ॥ ९२ ॥
अत्र मसृणत्वस्निग्धत्वयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपादानाद्वस्तुप्रतिवस्तुभावः तद्विशेष्यकयोः स्मितरुचिदुग्धोदधिमुग्धोर्म्योर्बिम्बप्रतिबिम्बभाव इति तत्करम्भितोऽयं साधारणधर्मः ॥
यथा वा--
जाम्बूनदाद्रिशृङ्गे जम्बूतरुमिव चकासतं सततम् । कनकाभिधगिरिशिखरे कनन्तमीडीय कमपि शुभराशिम् ॥ ९३ ॥
अत्र चकासत्त्वकनत्त्वयोर्वस्तुप्रतिवस्तुभावः तद्विशेष्यकयोर्जाम्बूनदाद्रिशृङ्गकनकाभिधगिरिशिखरयोर्बिम्बप्रतिबिम्बभाव इत्ययमपि तत्करम्भित एव । कनकाभिधगिरिर्वैकटाद्रिः। शुभराशित्वेनात्र भगवतोऽध्यवसानम् ॥