पृष्ठम्:अलङ्कारमणिहारः.pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
59
उपमालंकारसरः (१)

 यथा वा--

 कादम्बिनीव नीला काकोदरगिरिदरीविहृतिलोला । आप्याययति सुमहती काऽप्येषा देवताऽद्भुता जगतीम् ॥ ८६ ॥

 अत्र नीलेति आप्यायतीति च सकृन्निर्देशात्परदेवताकादम्बिन्योस्साधारणधर्मोऽनुगामी ॥

 यथा वा--

 निधिमनवधिमिव फणिगिरिनिहितपदं हितपदं । विधुतविपदम् । निर्विश्य नीरजाक्षं नितरां को नाम भवति दीनात्मा ॥ ८७ ॥

 हितपदं हिताधायकं अत्र हितपदत्वादिर्धर्मोऽनुगामी ॥

 यथा वा--

 तावकपदपद्मयुगीसेवकतां येन जात्वपीप्सन्ति । नाशायैव हि जाताश्श्रीशाब्धेर्बुद्बुदा इव त एते ॥

 यथा वा--

 सुकृतेक्षणजनुषान्धास्सकृदपि न नमन्ति ये रमाकान्तम् । अकृतहिता व्यर्थममी शकृदुदिताः क्रिमय इव विनश्यन्ति ॥ ८९ ॥

 सुकृतेक्षणे पुण्यदर्शने विषये जनुषान्धाः जात्यन्धाः ‘पुंसानुजो जनुषान्ध इति च' इत्यलुक् । सुकृतव्युत्पत्तिशून्या