पृष्ठम्:अलङ्कारमणिहारः.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
53
उपमालंकारसरः (१)

अन्योन्योपायतारूपस्यैव परंपरितत्वस्येह परिभाषणात् माला रूपताविरहाच्च ॥

 केवला मालारूपा श्लिष्टपरंपरिता यथा-

 सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव । तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो ॥ ७७ ॥

 सत्त्वस्य सत्त्वगुणस्य मृगादिजन्तुजातस्य च । जात्यभिप्रायकमेकवचनम् । हिमालय इव यथा हिमाद्रिस्सर्वसत्त्वषोषणधुरीणः तथाऽयं भगवान् स्वाश्रितानां सत्त्वपोषणधुरीण इति भावः । ‘महान् प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः' इति हि श्रूयते । रजसः रजोगुणस्य पांसोश्च प्रावृषेण्यजलद इव निर्वापक इति भावः । तमसः तमोगुणस्य तिमिरस्य च महसां निधिरिव निश्शेषनिवर्तक इति भावः । अत्र श्लेषोत्थापितैः जन्तुपांसुतिमिरैस्सत्त्वरजस्तमोगुणानामुपमाः हिमाचलप्रावृषेण्यजलदभानुभिर्भगवत उपमानामुपायाः । नन्वत्र जन्तुपांसुतिमिराणामिव सत्त्वरजस्तमसामित्येतादृशी उपमा कथमिव सुशका प्रत्येतुम्। उपमानोपमेयशब्दानां पृथगदर्शनादिति चेत्-- श्लेषस्थले ह्येकपदोपात्तत्वेन रूपेणाभेदाध्यवसानस्येव तेनैव साधर्म्येण सादृश्याध्यवसानस्यापि सुवचत्वात् । तस्यैव प्रकृते प्रयोज्याया उपमाया उपायत्वादिति वदन्ति ॥

 यथा वा--

 शाखिकुलामोदानां माधव इव माधवाहिधर-