पूर्वमेवोदाहृता । मालारूपनिरवयवाऽपि 'अलिबालति हरिनीलति, व्याळीशति कालीशति’ इत्यादावुदाहृतैव ॥
समस्तवस्तुविषया सावयवा यथा--
रचितोदया कळिन्दाद्रुचिरोदारा गिरेरिव मुकुन्दात् । सरिदिव सुषमालहरिर्हरते परितापमिव घनं पापम् ॥ ७३ ॥
यथा वा--
यमुनाह्रदमिव हृदयं कमलमिवावैमि कौस्तुभममुष्मिन् । डिण्डीरा इव हाराः कुण्डलिशिखरीन्द्रमण्डन तवैते ॥ ७४ ॥
{{gap}]समस्तानि वस्तूनि अवयवी अवयवाश्च विषया यस्यास्सा समस्तवस्तुविषयेत्यर्थः । अत्र श्लोकद्वयेऽपि अवयविनोऽवयवानां चोपमानानां शब्दैरेव सामस्त्येनोपादानात्समस्तवस्तुविषयताऽस्याः, अवयवोपमाननिष्पाद्यमानत्वाच्च सावयवता च । अत्राद्ये पद्ये धर्मस्योपादानं द्वितीये तु तन्नेति विशेषः । इयमनेकेवशब्दा वाक्यार्थोपमेति दण्डी । यथोक्तं काव्यादर्शे तेन--
वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते ।
एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा ॥
त्वदाननमधीराक्षमाविर्दशनदीधिति ।
भ्रमद्भृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥
नलिन्या इव तन्वङ्ग्यास्तस्याः पद्ममिवाननम् ।