पृष्ठम्:अलङ्कारमणिहारः.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
49
उपमालंकारसरः (१)

 यथा--

 हृदयमिव हारि वदनं वदनमिवानन्ददायि तव वचनम् । वचनमिव ललितवर्णं नयनं नयनश्रुतीन्द्रशिखरिमणे ॥ ७१ ॥

 अत्र पूर्वपूर्वं प्रत्युपमेयत्वेनोपात्तस्य वदनादेरुत्तरोत्तरं प्रत्युपमानत्वेनोपादानमुत्तरोत्तरस्य शृङ्खलायामिव पूर्वपूर्वसम्बन्धितयेति रशनोपमा । हृदयवदनयोः हारीति हारवत्त्वमनोहरत्वरूपार्थद्वयक्रोडीकारेण समानधर्मः । एवं वचननयनयोरपि ललितवर्णमिति मधुराक्षरत्वरमणीयविशदतादिवर्णवत्त्वरूपार्थद्वयाभेदा ध्यवसायेन । वदनवचनयोस्तु आनन्ददायीत्यनुगामितयेति वैलक्षण्यमनुसन्धेयम् ॥ इयं धर्मभेदे रशनोपमा ॥

 धर्मैक्ये यथा--

 ऐश्वर्यमिव स्थैर्यं स्थैर्यमिवौदार्यमहिगिरिसुरद्रोः । औदार्यमिवावार्यं शौर्यं शौर्यमिव हन्त गाम्भीर्यम् ॥ ७२ ॥

 अत्रावार्यमित्येक एव धर्मः । एवं धर्मलोपेऽप्युदाहार्यम् ॥

 इयमुपमाऽपि रूपकवत्केवलनिरवयवा मालारूपनिरवयवा समस्तवस्तुविषयसावयवा एकदेशविवर्तिसावयवा केवलश्लिष्टपरम्परिता मालारूपश्लिष्टपरम्परिता केवलशुद्धपरम्परिता मालारूपशुद्धपरम्परिता चेत्यष्टधा । तत्रोपमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमान्तरनिरपेक्षत्वम् । इयं च बहुधा

ALANKARA
7