पृष्ठम्:अलङ्कारमणिहारः.pdf/५४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
535
समासोक्तिसरः (२५)

 भुक्तभोगां अनुभूतसुखां विरक्तेः प्रागेव भोगा भुक्ताः न तूपरिष्टाद्भोक्ष्यन्त इति भावः । अचितं अचेतनरूपां अज्ञां च प्रकृतिं प्रविहाय ‘जहात्येनां भुक्तभोगामजोऽन्यः ' इति श्रुतिरत्रानुसंहिता । स्वलाभे अपहतपाप्मत्वादिविशिष्टस्वस्वरूपप्राप्तौ सोत्कण्ठम् । पक्षे स्वलाभे आत्मप्राप्तौ सोत्कण्ठं--

सर्वेन्द्रियसुखस्वादो यत्रास्तीत्यभिमन्यते ।
तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥

इत्युक्तेच्छाविशेषसहितम् । हे अच्युत! तावकं त्वद्भक्तं धन्यं कृतकृत्यं धनं लब्धारं च पुमांसं कुशलतरा अतिमात्रक्षेमंकरा चतुरतरा च ‘पर्याप्तौ सुकृते क्षेमे कुशलं निपुणे त्रिषु' इति रत्नमाला । मुक्तिः प्रतीक्षते प्रतिपालयति । अत्र वेदान्तशास्त्रीये प्रकृते व्यवहारे भुक्तभोगमूढवनितापरित्यजनपूर्वकस्वाभिलाषिनायकप्रतिपालयितृवासकसज्जिकाव्यवहारारोपः ॥

 यथावा--

 सा देवता विजयतेतरां परव्यूहविभवभेदेन । साध्वर्चा भुवनेऽन्तर्यामितया चापि विख्यात्या ॥

 सा देवता सेयं देवतैक्षत’ इत्युक्तापरब्रह्मरूपा देवता । परव्यूहविभवभेदेन परः परवासुदेवः व्यूहाः वासुदेवसंकर्षणाद्याः विभवाः रामकृष्णाद्यवताररूपाः तद्रूपेण भेदेन विजयतेतराम् । किंच भुवने अस्मिन् जगति साध्वर्चा श्रीरङ्गवेंकटाचलादिदिव्यक्षेत्रनिवासरमणीयार्चारूपा । साध्वी अर्चा यस्यास्सेति बहुव्रीहिः । साध्वी च सा अर्चेति तत्पुरुषो वा । ‘प्रतिकृतिरर्चा' इत्यमरः । अन्तर्यामितया अन्तर्यामिरूपेण, हेतौ तृतीया । विख्यात्या चापि अन्तर्यामित्वप्रयुक्तकीर्त्या चापीत्यर्थः।