पृष्ठम्:अलङ्कारमणिहारः.pdf/५४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
534
अलंकारमणिहारे

'मुखं प्रतिमुखं गर्भस्सावमर्शोपसंहृतिः’ इत्युक्ताः ये पञ्च सन्धयस्तेषां बन्धः यस्मिंस्तत् । हृद्यः हृदये भवः अङ्कः श्रीवत्सचिह्नं यस्य तत् । पक्षे हृदयप्रियाः अङ्काः ॥

प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः ।
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥

इत्युक्तलक्षणाः विच्छेदविशेषाः यस्मिंस्तत् । सर्वतः अभिनन्द्या रसा भूः येन तत् अभिनन्दनीयशृङ्गारादिरसमिति च । तव अभिरूपं मनोज्ञं रूपं दिव्यविग्रहं विलोक्य सभ्याः साधवः सामाजिकाश्च मुदं यान्ति । अत्र लौकिकव्यवहारे नाटकीयव्यवहारारोपः ॥

 शास्त्रीये लौकिकव्यवहारोपो यथा--

 विजरो विमृत्युरपहतपाप्मा त्वं सत्यकाम इति भगवन् । त्वयि तत्परा प्रसूते श्रुतिरनघा । काङ्क्षितार्थमखिलमपि ॥ ७९५ ॥

 अत्र वेदान्तशास्त्रीये व्यवहारे लौकिकवल्लभानुरक्तसुप्रजः कुटुम्बिनीव्यवहारारोपः । ‘अपहतपाप्मा विजरः' इति श्रुत्यर्थोऽत्रानुसंहितः । पक्षे -सत्यकामः स्वनायिकानुरक्त इति यावत् । काङ्क्षितार्थं अपेक्षितं अभिधेयं प्रयोजनं च ॥

 यथावा--

 प्रविहाय भुक्तभोगामचितं प्रकृतिं स्वलाभसोत्कण्ठम् । तावकमच्युत धन्यं कुशलतरा संप्रतीक्षते मुक्तिः ॥ ७९६ ॥