स्थितिः वर्णाश्रमादिधर्ममर्यादा ‘स्थितिः स्त्रियामवस्थाने मर्यादायां च सीमनि' इति मेदिनी । तस्यां कृतास्थाः ‘अविप्लवाय धर्माणां मर्यादास्थापनाय च' इत्यारभ्य ‘मनीषी वैदिकाचारं मनसाऽपि न लङ्घयेत्’ इत्युक्तरीत्या स्वानुष्ठानादिना जगन्मर्यादापालयितार इत्यर्थः । पक्षे -जगतां स्थितौ पालने कृतास्थः ॥
नहि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् ।
स्थितौ स्थितं महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥
सृजत्येष जगत्स्रष्टा स्थितौ पाति सनातनः ॥
इत्युक्तेः । हृदि मनसि सतां श्रीः सच्छ्रीः तां त्रयीमित्यर्थः । ‘ऋचस्सामानि यजूँषि । सा हि श्रीरमृता सताम्' इतिश्रुतेः । दधाना हृद्गतसकलवेदतदर्था इत्यर्थः । पक्षे-सतीं श्रियं लक्ष्मीं दधान इति । भागवताः भगवत्तुल्याः विभान्ति । अत्रानेकेषां भागवतानां भगवानेक एवोपमानं समानधर्मश्श्लेषमूलकः । भगवत्तुल्या इत्यत्रोपमानवाचिपदगतवचनस्य वृत्तिलुप्ततयाऽनुद्वेजकत्वान्न भिन्नवचनतालक्षणदोष इति ध्येयम् । इयं सामान्यधर्मस्यैक्य एव भवति उपमानस्यैकत्वादिति ध्येयम् ॥
बहूनां बहुभिरुपमारूपस्तुरीयः प्रकारस्तु पूर्वमुदाहृते ‘धान्येषु पुलाका इव’ इत्यादौ द्रष्टव्यः ॥
पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम् ।
उपमानत्वमेषोक्ता कविभी रशनोपमा ॥ २२ ॥
प्रथमोपमायां यदुपमेयं तच्चेदुत्तरोपमायामुपमानं भवति सा रशनोपमेत्यर्थः ॥