पृष्ठम्:अलङ्कारमणिहारः.pdf/५३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
531
समासोक्तिसरः (२५)

योयो भावस्स्वामिदृष्टो युतो वा ।
सौम्यैर्वा स्यात्तस्यतस्याभिवृद्धिः ॥

इत्यादिज्योतिश्शास्त्रीयव्यवहारारोपः ॥

 यथावा--

 न नमय शिरो यतस्त्वयि ननु वृत्ते काऽपि मालिनी भवति कृतिन् । साध्वन्वयगुणरुचिरा ह्यतिशक्वर्यन्तरुज्ज्वलाऽनघलक्ष्मीः ॥ ७९३ ॥

 इदं पद्यं कंचित्कृतिनं प्रति कस्यचिद्वचनम् । हे कृतिन् ! शिरः मूर्धानं न नमय न प्रह्वय । यतः यस्मात्कारणात् त्वयि वृत्ते चरित्रे विषये काऽपि मालिनी मालिन्यं ‘गुणवचन' इति भावे ष्यञि षित्वलक्षणो ङीष् । न भवति नु । नु इत्येतदव्ययमनुनये । ‘नु वितर्कापमानयोः ! विकल्पानुनयातीते प्रश्ने हेत्वपदेशयोः' इति मेदिनी । यदि चारित्रे यत्किंचिदपि संभवेन्मालिन्यं तर्हि शिरो नमयितव्यं, तद्धि शिरोनमनकारणं, न हि त्वयि तद्दृश्यत इति भावः । तत्र हेतुमाह-- साध्विति । हे अनघ ! हि यस्मात् साध्वन्वयगुणरुचिरा साधुः अन्वयस्संबन्धः येषां ते नित्यसंबद्धा इत्यर्थः । तथाविधाः ये गुणाः सत्यत्वज्ञानत्वानन्दत्वादयः अपहतपाप्मत्वादयश्च कल्याणगुणाः तैः रुचिरा रमणीया । अतिशक्वरी दुरितनिग्रहाश्रितानुग्रहयोरतिमात्रशक्ता । शक्नोतेः ‘अन्येभ्योपि दृश्यते’ इति क्वनिप् । स्त्रीत्वविवक्षायां ‘वनो र च' इति ङीप्, रश्चान्तादेशः । ईदृशी लक्ष्मीः श्रीः अन्तः तव हृदये उज्ज्वला दीप्ता त्वया ध्यातेति यावत् । उक्तप्रकारलक्ष्मीनिवासभूतहृदयतया तव मालिन्यस्पर्शो न भवत्येवेति भावः ॥