पृष्ठम्:अलङ्कारमणिहारः.pdf/५३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
524
अलंकारमणिहारे

तशरीरस्यैव दुःखहेतुत्वाच्च सशरीर एवायमिति ‘भावं जैमिनिर्विकल्पामननात्’ इति जैमिनिमतेन प्रतिक्षिप्य सत्यसंकल्पत्वश्रुत्या इच्छानुरोधेन कदाचित्सशरीरः अशरीरश्च कदाचिदिति स्वमतमुपन्यस्तम् । ‘द्वादशाहवदुभयविधं बादरायणोऽतः' इति सूत्रेण भगवता बादरायणेन । संकल्पाधिकरणे तु सत्यसंकल्पत्वेन व्यवह्रियमाणानां राज्ञां कार्यनिष्पादने प्रयत्नसापेक्षत्वदर्शनान्मुक्तस्यापि प्रयत्नसापेक्षैव पित्रादिसृष्टिरित्याशङ्क्य ‘संकल्पादेवास्य पितरस्समुत्तिष्ठन्ते' इत्यवधारणात् प्रयत्नापेक्षत्वे प्रमाणाभावाच्च संकल्पमात्रादेव सृष्टिरिति ‘संकल्पादेव तच्छ्रूतेः’ इति सूत्रेण निर्णीय ‘अत एव चानन्याधिपतिः' इति सत्यसंकल्पत्वमेव ‘स स्वराड्भवति' इति श्रुत्युदाहरणेन स्थापितं शारीरकभाष्ये । तदेतत्सर्वं मूले यथास्थानं प्रत्यभिज्ञापितं तैस्तैः पदैरिति सावधानं द्रष्टव्यम् । अत्रापि लौकिके शास्त्रीयारोपः॥

 यथावा--

 न क्षिप्तं न च मूढं न च विक्षिप्तं श्रयेत्त्वदीयजनः । त्वय्येकाग्रनिरुद्धस्थितिर्भवेद्देव सार्वभौमोऽयम् ॥ ७८८ ॥

 अत्र लौकिके व्यवहारे प्रस्तुते अप्रस्तुतयोगशास्त्रीयव्यवहारारोपः । तथाहि- हे देव! त्वदीयजनः क्षिप्तं अन्यैरधिक्षिप्तं पुमांसं न श्रयेत् । मूढं अज्ञं च न श्रयेत् । विक्षिप्तं अनवस्थितात्मानं च न श्रयेत् । संभावनायां लिङ् । किंतु अयं त्वदीयजनः त्वयि एकाग्रं अव्यग्रं यथा स्यात्तथा निरुद्धस्थितिः निरुद्धचित्तवृत्तिरिति यावत् । सार्वभौमः सर्वभूमेरीश्वरः सर्व