पृष्ठम्:अलङ्कारमणिहारः.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
47
उपमालंकारसरः (१)

यथोक्तं कैयटेन–-'गुड इवेषदसमाप्ता द्राक्षा गुडकल्पा । यद्यप्यत्रोपमानं नोपात्तं, तथाऽपि सामर्थ्यादुपमानोपमेयभावः' इति । तत्र प्रत्ययानामुपमानोत्तरमेव प्रयोगः तस्यैव तत्प्रकृतित्वात् । निभादीनां पदानां तु-– 'वाच्यलिङ्गास्समस्तुल्यः’ इत्यारभ्य ‘स्युरुत्तरपदे त्वमी । निभसङ्काशनीकाशप्रतीकाशोपमादयः' इति नित्यसमासविषयतानुशासनात् चन्द्रेण समं चन्द्रनिभमित्यस्वपदेन विग्रहः प्रदर्शनीयः । तदुक्तं क्षीरस्वामिना-- 'उत्तरपदे इत्युक्तेश्चन्द्रेण निभमिति न भवति' इति । वैरिसुहृद्वाचकास्सादृश्यार्थाः ।शशाङ्कवदनेत्यादौ उपमानपूर्वपदो बहुव्रीहिः । प्रतिबिम्बः स्पर्धत इत्यादयस्सादृश्याक्षेपका इत्यलम् । प्रकृतमनुसरामः । अनेकस्यैकोपमारूपस्तृतीयप्रकारश्च भरतेनैवं प्रदर्शितः-

चन्द्रवत्सम्प्रकाशन्ते ज्योतिर्भाजो द्विजोत्तमाः ।
एकेन सा त्वनेकेषामुपमा संप्रकीर्तिता ॥ इति ॥

 तत्रेदमुदाहरणम्--

 अमृतमयलोकबान्धवदृष्टिप्रथिता जगत्स्थितिकृतास्थाः । हृदि सच्छ्रियं दधाना भगवत्तुल्या विभान्ति भागवताः ॥ ७० ॥

 अमृतमयलोकः अप्राकृतलोकः परमं पदमित्यर्थः । तस्य बान्धवी प्रापयित्रीति यावत् । दृष्टिः ज्ञानं दर्शनं वा येषां ते तथाविधा इति प्रथिताः निश्श्रेयसप्रदाननिदानज्ञानपौष्कल्यवत्तया प्रसिद्धाः तथाविधदर्शना इति प्रसिद्धा इति वाऽर्थः । पक्षे-अमृतमयश्चन्द्रमाः लोकबान्धवो भानुः तावेव दृष्टी अक्षिणी यस्य तथोक्त इति प्रथित इति वचनविपरिणामेन योज्यम् । जगतः