पृष्ठम्:अलङ्कारमणिहारः.pdf/५२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
523
समासोक्तिसरः (२५)

भाजश्च । स्वैरं दिव्यालोकान् सृजन्ति हृद्यास्तव स्वराजश्च ॥ ७८७ ॥

 हे श्रीनाथ! तत्र हृद्याः हृदयस्थाः ‘शरीरावयवाच्च' इति भवार्थे यत् ‘हृदयस्य हृल्लेख’ इत्यादिना हृदयशब्दस्य हृदादेशः । स्वेन राजन्त इति स्वराजः अनन्याधीनप्रकाशा इत्यतिशयोक्तिः । अतनवः स्थूलाः । मूर्तिभाजः काठिन्यभाजश्च । मूर्तिः काठिन्यकाययोः' इत्यमरः । कतिचन मुक्ता इति मणयः स्वैरं यथेष्टं दिव्याश्च ते आलोकाश्च दिव्यालोकाः तान् रमणीयान् प्रकाशानित्यर्थः । ‘दिव्यं वल्गुलवङ्गयोः' इति हेमचन्द्रः ‘आलोको दर्शने द्योतौ' इत्यमरः । सृजन्ति प्रसारयन्तीति यावत् ॥

 पक्षे- तव हृद्याः हृदयप्रियाः ‘स च मम प्रियः’ इति गानात् । हृदयस्य प्रियः' इति यत् । अत एव मुक्ताः प्रकृतिबन्धवियुक्ताः कतिचन चेतना इति गम्यते । स्वैरमित्येतदत्राप्यपकृष्यते । स्वैरं यथेष्टं अतनवः अशरीराः मूर्तिभाजः शरीरभाजश्च । दिव्याः दिवि परमपदे भवाः दिव्यास्सन्तः, दिगादित्वाद्यत् । स्वैरं यथेष्टं लोकान् 'स यदि पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्ठन्ते' इत्याद्युक्तप्रकारान् लोकान् सृजन्ति । अत एव स्वराजश्च अनन्याधिपतयश्च भवन्तीति शेषः । अत्र पूर्वार्धेन अभावाधिकरणसिद्धान्तार्थः, उत्तरार्धेन संकल्पाधिकरणार्थश्च संगृहीतः।

 तत्र हि -अभावाधिकरणे शरीरस्य दुःखहेतुत्वान्मुक्तस्य शरीरं नेति ‘अभावं बादरिराह ह्येवम्’ इति सूत्रेण बादरिमतमनूद्य स एकधा भवति' इत्यादिना मुक्तस्यानेकधा भावश्रवणादच्छेद्यस्य निरवयवस्य शरीरेण विनाऽनेकीभावानुपपत्तेः कर्मकृ-