पृष्ठम्:अलङ्कारमणिहारः.pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
46
अलंकारमणिहारे

प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः ।
सदृक्सदृशसंवादिसजातीयानुवादिनः ॥

प्रतिबिम्बप्रतिच्छन्दसरूपसमसम्मिताः ।
सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥

कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि ।
सवर्णतुलितौ शब्दौ ये वाऽ(चा)न्यूनार्थवाचकाः ॥

समासश्च बहुव्रीहिश्शशाङ्कवदनादिषु ।
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥

आक्रोशत्यवजानाति कदर्थयति निन्दति ।
विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति ॥

तस्य पु(मु)ष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ॥
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥

तत्पदव्यां पदं धत्ते तस्य कक्ष्यां विगाहते ।
बन्धुश्चोरस्सुहृद्वादिसतीर्थ्यसहचारिणः ॥

तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ।
तस्य वाऽनुकरोतीति शब्दास्साधर्म्यबोधकाः ॥

उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ इति ॥

 अत्र तस्य वाऽनुकरोतीत्यत्र इतिशब्दः प्रकारवाची । एवंप्रकाराश्शब्दास्साधर्म्यबोधका इत्यर्थः । तेन सगोत्रसब्रह्मचारिदायादप्रभृतीनामप्युपमानबोधकत्वं सिध्यति । अत्र इवादयो निपाताः । वदिति इवार्थे तुल्यार्थे च विहितो वतिप्रत्ययः । कल्पदेश्यदेशीयास्तद्धितप्रत्ययाः । यद्यप्येते ईषदसमाप्त्यर्थे विहिताः तथाऽपि तुल्यार्था एव । ईषदसमाप्तेरपि सादृश्ये पर्यवसानात् ।