पृष्ठम्:अलङ्कारमणिहारः.pdf/५१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
507
समासोक्तिसरः (२५)

 यथावा--

 बहुधात्वात्मा विन्देन्नाथेषद्दुरितसूपपदतां चेत् । न खलु न खलाश्रितस्स्यात्प्रत्ययितस्सोपि दर्शनेन तव ॥ ७७६ ॥

 हे नाथ ! आत्मा प्रत्यगात्मा । ईषत् अल्पं दुरितेन वृजिनेन सूपपदतां सुखेन उपपद्यत इति सूपपदः। वक्ष्यमाणः खल्प्रत्ययः । तस्य भावं इयाच्चेत् यत्किञ्चिद्दुष्कृतोपपन्नश्चेदित्यर्थः । बहुधा बहुप्रकारेण प्रायेणेति यावत् । खलाश्रितः दुर्जनसंसृष्टः न स्यादिति तु न खलु । स्यादेवेति भावः । तुशब्दोऽवधारणे, खल्विति जिज्ञासायां वाक्यालङ्कारे वा । ‘निषेधवाक्यालङ्कारजिज्ञासानुनये खलु' इत्यमरः । दुरितमूलको हि खलसंसर्गः । यथोच्यते-

अहो नु खलसंसर्गः पापानां महतां फलम् ।

इति । सोपि एवं खलसंसर्गविदूषितोपि तव दर्शनेन यादृच्छिकादिसुकृतपरिपाकसुलभेन तवावलोकनेन प्रत्ययितः संजातप्रत्ययः ज्ञानवानित्यर्थः । इतच् । स्यादित्येतदत्रापि संबध्यते ।

अज्ञानं नश्यति ज्ञानमुदेति हरिदर्शनात् ।

इत्युक्तेरिति भावः ।

 पक्षे-बहुः बहुप्रकारः धातूनां भ्वादीनां आत्मा स्वरूपं ईषद्दुर्भां शब्दाभ्यां इतः सुः सुइत्याकारकश्शब्दः उपपदं उपोच्चारितं पदं ‘तत्रोपपदं सप्तमीस्थम्’ इति संकेतितं यस्य सः तथोक्तः । तस्य भावः ईषद्दुस्सूपपदतेत्यर्थः । ताम् । यद्वा- ईषद्दुर्भां उपपदभूताभ्यामिति भावः । इतः युक्तः सुः उपपदं यस्य सः सूपपदः ईषद्दुरितश्चासौ सूपपदश्चेति विशेषणोभय-