पृष्ठम्:अलङ्कारमणिहारः.pdf/५१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
504
अलंकारमणिहारे

गुरुपरंपराशरणवरणपूर्वकभगवच्चरणारविन्दशरणागत्यादिकखिलमपि न्यासविद्यानिष्णातानां सर्वेषां मनोहरं भवतीति भावः॥

 पक्षे-छन्दश्शास्त्रीयप्रस्तारक्रमो दर्शितः । तथाहि-हे सखे! त्वं सर्वे गुरवः गुरुवर्णज्ञापकवक्ररेखाविशेषाः यस्मिंस्तत्सर्वगुरु । चरणं पद्यचतुर्थांशं आप्त्वा उक्तविधरेखाभिर्लिखित्वेति यावत् । आद्यगुरुपदाधः आद्यं प्रथमं गुरुपदं गुरुवर्णचिह्नं तज्ज्ञापकवक्ररेखाविशेष इत्यर्थः । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । तस्य अधः अधस्ता | लघोः लघुवर्णज्ञापकऋजुरेखाविशेषस्य न्यासात् तल्लेखनं कृत्वा । पूर्ववत्पञ्चमी । शेषं अवशिष्टं उपरीव उपरितनपङ्क्ताविव । दर्शय लिखेति यावत् । ऊने उपरिगुरुवर्णज्ञापकरेखाहीने लघुवर्णसूचकरेखासद्भावे इति भावः । गुरुं गुरुवर्णसूचकवक्ररेखाविशेषं दर्शयेत्यत्राप्यन्वेति । एवं शश्वत् पुनःपुनः दर्शय । एवं सति तत् चरणं अखिललघु अखिलाः लघवः लघुवर्णज्ञापकरेखाविशेषाः यस्य तत्तथोक्तं भवति इति,

पादे सर्वगुरावाद्यालघुं न्यस्य गुरोरध ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥
ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् ।
प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥

इति श्लोकार्थस्सर्वोप्यनुसन्धेयः । तथाहि तदर्थः- सर्वेषां छन्दसाभाद्यं वृत्तं सर्वगुरु अन्त्यं सर्वलघु अतः पादोपि तादृश एव एवं सति सर्वगुरौ पादे छन्दोनुरूपतया अर्धचन्द्राकृतिवक्ररेखाभिर्लिखिते सतीति यावत् । आदेः गुरोः अधः आद्यवक्ररेखाया अधस्तात् द्वितीयपङ्क्तौ लघुं ऋजुरेखां न्यस्य लिखित्वा यथोपरि लघुरेखायाः परत्र स्थाने दक्षिणपार्श्वे उपरिपङ्क्तौ यद्वत्