मते त्वस्मिन् ‘जलधिवत्' इत्यादिकमेव मालोपमोदाहरणं बोध्यम् ॥
भरतस्तु--
एकस्यैकेन सा कार्याऽनेकेनाप्यथवा पुनः ।
अनेकस्य तथैकेन बहूनां बहुभिस्सह ॥
इत्युपमायाश्चातुर्विध्यं प्रादर्शयत् । सा उपमेत्यर्थः । तत्र एकस्यैकेनोपमारूपः प्रथमप्रकारः ‘गगनं यथा फणीश्वरनगपतिहृदयम्’ इत्यादिप्रागुदाहृतपद्येषु द्रष्टव्यः ॥
एकस्य बहुभिरुपमारूपो द्वितीयप्रकारस्तु तेनेत्थं प्रदर्शितः
तथाहि--
श्येनबर्हिणभासानां तुल्याक्ष इति या भवेत् ।
एकस्य बहुभिस्साम्यादुपमा सा प्रकीर्तिता ॥
इति । दण्डी च इममेव प्रकारं बहूपमेति व्यवाहार्षीत् । तथाच काव्यादर्शे--
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः ।
स्पर्शस्तवेत्यतिशयं बोधयन्ती बहूपमा ॥
इति । तदनुरोधेनेदमुदाहरणम् । यथा--
कुवलयजलधरयमुनातमालसब्रह्मचारिरुचिररुचिः। सरसिजकिसलयविद्रुमसहचरचरणो ममाच्युतश्शरणम् ॥ ६९ ॥
अत्र सब्रह्मचारिसहचरशब्दौ उपमानार्थकौ। तथाच दण्डी--
इववद्वायथाशब्दास्समाननिभसन्निभाः ।
तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः ॥