पृष्ठम्:अलङ्कारमणिहारः.pdf/५०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
503
समासोक्तिसरः (२५)

एवं पूर्वस्मिन्नर्थेऽपीति ध्येयम् । अत्र ‘गुरुमुखाच्छ्रीशं प्रपद्य' इत्युक्तोऽर्थोऽनुसंहितः । उपरीव आदौ प्रदर्शिते गुरुचरण इव प्रथमगुरोश्चरणेऽपीति भावः । स्वमिति शेषः । आत्मानमित्यर्थः । शेषं शेषभूतं परगतातिशयाधानेच्छया उपादेयस्वरूपं दर्शय । यद्वा-उपरि सकललोकोपरि विद्यमाने अखिलजगदीश्वरे भगवतीत्यर्थः । तस्मिन्निव सर्वगुरुचरणेऽपीति भावः । शेषं दर्शयेति योज्यम् । अथवा उपरीत्यस्य सकललोकशिरोधार्ये भगवच्चरण इवत्यर्थः । अन्यत्तुल्यम् ।

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥

इत्यादिश्रुतेः । ऊने उपायानुष्ठानसमयभाव्यङ्गादिवैगुण्ये संभाविते सति । शश्वत् गुरुं स्वाचार्यं दर्शयेत्येतन्मध्यमणिन्यायेनात्रापि संबध्यते ।

पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ।

इत्याद्युक्तरीत्या भगवत्प्रसादनायाचार्यं दर्शयेति भावः । तत् तस्मात् उक्तप्रकारेणानुष्ठानात् अखिलं च तत् लघु च अखिललघु निश्श्रेयसपर्यन्तसकलाभिष्टं भवति सिद्ध्यति ‘त्रिष्विष्टेऽल्पे लघुः' इत्यमरः । इष्टेऽर्थे-

दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ।

इति प्रयोगश्च । लघुना इष्टेनेति विवृतम् । यदा ।

कृष्णागुरुणि शीघ्रे च लघु क्लीबेगुरौ त्रिषु ।
निस्सारे च मनोज्ञे च पृक्कायां च लघु स्त्रियाम् ॥

इत्यादिरभसादिकोशैकरस्यायेष्टशब्दोऽमरकोशगतो मनोज्ञवाची त्याश्रीयते, तदा अखिललघु इत्यस्य सर्वमनोज्ञमित्यर्थः । तदिदं