पृष्ठम्:अलङ्कारमणिहारः.pdf/५०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
501
समासोक्तिसरः (२५)

प्रतिषेधद्वयेन कादाचित्कनिष्प्रभात्वसंभावनाऽपि व्युदस्यते । ‘संभाव्यनिषधनिवर्तने द्वौ प्रतिषेधौ' इत चामनः । सजरा च न । उक्त एवार्थः । भवतीति शेषः । अस्तेर्भवन्तिपरस्याप्रयुज्यमानस्याप्यस्तित्वभाषणात् । अव्याहतमहाविभूतिविशिष्टस्त्वमिति तात्पर्यार्थः । अत एव त्वच्छन्दस्थितिभाजां तव छन्दः अभिप्रायः 'अभिप्रायवशौ छन्दौ' इत्यमरः । तस्मिन् स्थितिभाजां ‘त्वदीयगम्भीरमनोऽनुसारिणः’ इतिवत्त्वदभिप्रायानतिलङ्घिनामित्यर्थः । यद्वा- त्वदधीनतास्थितिशालिनामित्यर्थः । त्वच्छेषभूतानां नृणामिति भावः । शुभं कल्याणं । श्रीः संपत्, प्रभा तेजः ते आदी यस्य तत् । आदिशव्देन यशआदीनां ग्रहणम् । वृत्तं तदनुरूपं चरित्रं च भाति प्रकाशते 'किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने, सकलफलप्रदो हि विष्णुः' इत्यखिलफलप्रदातृभगवच्चित्तानुवर्तिनामीदृशविशेषो न दुर्लभ इति भावः ॥

 पक्षे -सकलशुभगणाः स्म यमाताभानसजराः इति छेदः । हे ईश! त्वयि यमाताभानसजराः अत्र मादिवर्णेषु दीर्घोऽपि यादिवर्णेष्वकार इवोच्चारणसौकर्यार्थ एव । यमतभनसजराः यादिसंज्ञकाः सकलाश्शुभाश्च गणाः-

सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ ।
मध्याद्यौ ज्भौ त्रिलौ नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥

इति छन्दश्शास्त्रप्रसिद्धा गणाः वर्णत्रयात्मकाः लगन्ति स्म लग्ना भवन्ति स्म । त्वद्बुद्धिस्था अभवन्निति यावत् । अस्यामानुपूर्व्यां यकारादिवर्णत्रितये यथा आदिलघुर्यगणो निष्पद्यते । एवं एकैकवर्णापायेन मा इत्यादौ वर्णत्रितयत्रितये सर्वगुरुर्मगण