पृष्ठम्:अलङ्कारमणिहारः.pdf/५०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
498
अलंकारमणिहारे

नम्' इत्याद्यप्यत्रानुसंधेयम् । हे ईश! सर्वेश्वर! ‘क्षरात्मा नावीशते देव एकः, व्यक्ताव्यक्तं भरते विश्वमीशः, एष सर्वेश्वरः' इत्यादिश्रुतेः । त्वयि लगन्ती व्यतिषजन्ती शुभानां कल्याणानां गणाः निवहाः सकलास्समग्राः शुभगणा यस्यास्सा तथोक्ता । माता अस्य जगतामित्यादिः । यद्वा -अनौपाधिकनिर्देशेन शब्दशक्तेरसंकोचान्मतेत्यस्यैवाखिलजगज्जननीत्यर्थः । आभा इति छेदः। आ समन्तात् भातीत्याभाः । भातेः कर्तरि क्विप् । विश्वव्यापिनीत्यर्थः ॥

यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः।
तया व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ॥

इति विष्वक्सेनसंहितोक्तः । यद्वा-आ समन्तात् भाः प्रभा यस्यास्सा । विश्वतोमुखद्युतिरित्यर्थः । ‘चन्द्रां प्रभासां, ज्वलन्तीं तृप्ताम्' इत्यादिश्रुतेः । जरया सह वर्तत इति सजरा सा न भवतीति नसजरा । नशब्देन सुप्सुपेति समासः ‘जरां मृत्युमत्येति, विजरो विमृत्युः’ इत्यादिश्रुत्युक्तरीत्या भगवत इवास्या अपि जरातीतत्वाद्यखिलहेयप्रत्यनीकताया अव्याहतत्वात् । अत एवोक्तं लक्ष्मीतन्त्रे-

कान्तस्य देवदेवस्य विष्णोस्सद्गुणशालिनः ।
दयिताऽहं सदा देवी ज्ञानानन्दमयी परा ॥
अनवद्याऽनवद्याङ्गी नित्यं तद्धर्मधर्मिणी ॥

इति,

नित्यनिर्दोषनिस्सीमकल्याणगुणशालिनी ।
अहं नारायणी नाम सा सत्ता वैष्णवी परा ॥

इत्यादि च । यद्वा माता अभा न सजरा इति छेदः । नेत्येतन्मध्यमणिन्यायेनोभयतोऽन्वयि । अभा निष्प्रभा न, किंतु सप्रभैव ।