पृष्ठम्:अलङ्कारमणिहारः.pdf/५०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
499
समासोक्तिसरः (२५)

इति स्मरणात् । जातु कदाचित् सति संभव इति भावः । स्वस्मिन् आवश्यकं सीमन्तोन्नयनादिकं प्रतिनियतकालमवश्यकर्तव्यं शुभं मङ्गळं कर्म मां कारयतु ।

मासप्रोक्तेषु कार्येषु न मोढ्यं गुरुशुक्रयोः ।
अधिमासादिदोषाश्च न स्युः कालविधेर्बलात् ॥

इति स्मरणात् । अत्र पुराणवृत्तान्ते प्रस्तुते अप्रस्तुतधर्मशास्त्रीयव्यवहारारोप इति पूर्वेभ्यो विशेषः ॥

 यथावा--

 त्वयि सकलशुभगणास्मयमाताभानसजरालगन्तीश । त्वच्छन्दस्थितिभाजां भाति शुभं श्रीप्रभादिवृत्तं च ॥ ७७३ ॥

 अत्र श्रुतीतिहासपुराणादिशास्त्रीये व्यवहारे छन्दश्शास्त्रीयव्यवहारारोपः । तथाहि- सकलशुभगणा अस्मयेति छेदः । अविद्यमानः स्मयः गर्वः स तथोक्तः अस्मयः ‘स्मयो नाऽद्भुतगर्वयोः, स्मयो गर्वेऽद्भुते' इति मेदिनीविश्वौ । ‘न दृप्तो न च मत्सरी । अनुद्धतमना विद्वान्' इति श्रीरामायणोक्तेः । तस्य संबुद्धिः, अविद्यमानः स्मयो विस्मयो यस्येति वा ‘वीर्यबान्न च वीर्येण महता स्वेन विस्मितः' इति तत्रैवोक्तेः । यद्वा-अविद्यमानः स्मयः आश्चर्यकरः पदार्थः यस्मात्स इति अनुत्तमादिवत्पञ्मीबहुवीहिः ।

यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले ।
तं त्वा नु पश्यतो ब्रह्मन्किं मे इष्टमिहाद्भुतम् ॥

इत्यक्रूरोक्तप्रकारेण सर्वाश्चर्यानिधे इत्यर्थः । स्मय इत्येव छित्वा हे स्मयेति संबोधनं वा । अर्थस्तूक्त एव ‘अनेकाद्भतदर्श-