पृष्ठम्:अलङ्कारमणिहारः.pdf/५०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
497
समासोक्तिसरः (२५)

जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ।

इत्येतदत्र स्मर्तव्यम् ।

भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ।
क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु ॥

इति मेदिनी । उक्तप्रकारे त्वय्यधीनमखिलं जगदित्यभिप्रायः ।

 पक्षे- सुप्रथते इति दिव्यस्वभावेति च छेदः । हे दिव्यस्वभाव! हे अच्युत! भाति प्रकाशमाने प्रथमे प्रथमशब्दे असर्वसाधारणे सर्वशब्दतुल्यत्वेनाविद्यमानेऽपि ‘साधारणस्समानश्च' इति तुल्यपर्यायेष्वमरः । अपिशब्दः 'न द्वन्द्वदुःखमिह किंचित्' इत्यत्रेव सामर्थ्याल्लभ्यते ।सर्वादिगणापठितेऽपीति यावत् । जसि प्रथमाबहुवचने शीभावः शी इत्याकारकादेशः अनित्य इति छेदः । अनित्यः विकल्पितः जगतां सुतरां प्रथते सुष्ठु प्रसिद्ध्यति “प्रथमचरमतय’ इति सूत्रेणासर्वनाम्नोपि प्रथमशब्दस्य जस्येव शीभावस्य वैकल्पिकतयाऽनुशासनादिति भावः । अत्र सहस्रनामाध्यायादिप्रसिद्धव्यवहारे शब्दशास्त्रसिद्धव्यवहारारोपः ॥

 यथावा--

 बहुधामासव्रजभूर्मलिम्लुचो जातु यो निषिद्धोपि । कारयतु स मां शौरिस्स्वस्मिन्नावश्यकं शुभं कर्म ॥ ७७२ ॥

 बहुधामा अमिततेजाः यः शौरिः जातु कदाचित् व्रजभूः । नन्दव्रजजन्मा सन् निषिद्धोपि यशोदादिभिर्वारितोपि मलिम्लुचः दुग्धदधिनवनीतादिस्तेनः आस अभूत् । तिङन्तप्रतिरूपकमव्य-

 ALANKARA
63