पृष्ठम्:अलङ्कारमणिहारः.pdf/५००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
494
अलंकारमणिहारे

तस्याः अयनः प्राप्ता । शम्पया ईयत इति वा । सर्वधाऽपि वज्री इन्द्र इत्यर्थः । ‘शम्पा विद्युत्पविश्शम्पा’ इत्यनेकार्थध्वनिकोशः । तेन कथनीया,

नमस्ते सिन्धुसंभूते नमस्ते पद्मसम्भवे ।
नमस्सरोरुहावासे नारायणकुटुम्बिनि ॥

इति,

नमामि सर्वलोकानां जननीमब्धिसंभवाम् ।

इत्यादिना च लक्ष्मीतन्त्रविष्णुपुराणादौ देवराजेन स्तुतेत्यर्थः । यद्वा--शम्पायने इन्द्रे कथनीयं उपदेष्टव्यं लक्ष्मीतन्त्रादि यस्यास्सा तथोक्ता । लक्ष्मीतन्त्रस्य लक्ष्म्या इन्द्रायोपदिष्टत्वादिति भावः ।

 पक्षे–वैशम्पायनेत्येकं पदम् । वैशम्पायनेन परमर्षिणा कथ्यत इति कथनीया ‘तयोरेव' इति कर्मण्यनीयर् । जनमेजयायोपदिष्टेत्यर्थः। उदारभागवतगीता उदाराः ‘उदरास्सर्व एवैते’ इति भगवतैव प्रशस्ताः वदान्या ये भागवताः भगवद्भक्ताः ‘चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन' इत्यादिनोक्ता आर्तजिज्ञास्वर्थार्थिज्ञानिनः । ते हि भगवतो यत्किंचिदपि गृह्णन्ति तस्मै तु सर्वस्वदायिन इत्युदारता तेषाम् । तैर्गीता । पक्षे–भगवत इयं भागवती गीता भगवद्गीतोपनिषदित्यर्थः । सा उदारा यस्यां सा तथोक्ता । उदारत्वं चास्याः पठतां शृण्वतां च परमपुरुषार्थदातृत्वम् । महाभारतान्तर्विद्यमानाख्यानेषु महत्त्वं वा । ‘उदारो दातृमहतोः' इत्यमरः । प्रियस्य स्ववल्लभस्य भगवतः शान्तिः आश्रितापराधनिर्वर्णनोदीर्णक्रोधावेगप्रशमनं तस्याः यदनुशासनं वाल्लभ्यातिशयेनाज्ञापनं तस्मिन् आहितः उद्योगः यया सा तथोक्ता ।