पृष्ठम्:अलङ्कारमणिहारः.pdf/४९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
488
अलंकारमणिहारे

तिस्स्वविवक्षितं परमपुरुषार्थं साधयतीति निर्गळितोऽर्थः । इह अस्मिन्विषये को नु संदिग्धां कः पुमान् संदेग्धु, ईदृशस्य परमपुरुषार्थाधिगमे पामरोऽपि न संशयीतेति भावः । संपूर्वात् ‘दिह उपचये' इत्यस्माद्धातोः कर्तरि लोट्प्रथमपुरुषैकवचनम् । उपायापायादिस्वरूपं च तत्रैव लक्ष्मीतन्त्रे--

उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके ।
उपायापायतामेव क्रिया सर्वाऽवलम्बते ॥
स्वीकारे व्यतिरेके वा निषेधविधिशास्त्रयोः ।
दृश्यते कर्मणो व्यक्तमुपायापायरूपता ॥

इति पृच्छते शक्राय--

त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् ।
निषेधविधिशास्त्रेभ्यस्तां विधां च निबोध मे ॥
अनर्थसाधकं किंचित्किंचिच्चाप्यर्थसाधकम् ।
अनर्थपरिहाराय किंचित्कर्मोपदिश्यते ॥
त्रैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा ।
अपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत् ॥
तृतीयो द्विविधो राशिरनर्थपरिहारकः ।
प्रायश्चित्तात्मकं कश्चिदुत्पन्नानर्थनाशनः ॥
तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् ।
क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते ॥
अक्रियावदनर्थाय तत्तु कर्म समाचरेत् ।
एषा सा वैदिकी निष्ठा ह्युपायापायमध्यमा ॥
अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् ॥

इति भगवत्या श्रीलक्ष्म्या स्वयमेवोक्तम् । विवृतं चैतद्वात्स्यवरदगुरुभिः--