पृष्ठम्:अलङ्कारमणिहारः.pdf/४८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
483
समासोक्तिसरः (२५)

विष्णुभक्तिपरस्तद्वत्सप्तजन्मानि मानवः ।
एकान्तभगवद्याजी विप्रो भागवतान्वये ॥
ततस्स लभते मुक्तिं देवैरत्यन्तदुर्लभाम् ।

इति वाराहे,

त्रिभिः प्रजापतेर्भक्तः पञ्चभिश्शंकरस्य तु ।
विंशत्याऽग्नींन्द्रसूर्यादेर्जन्मभिर्वैष्णवो भवेत् ॥

इत्यादिभरद्वाजसंहितायां च बहुजन्मव्यवधानेन मुक्तिसाधनतया उक्तेषु भास्करादिष्वनन्यरतित्वादिकां जघन्यां वृत्तिं नाद्रियन्त इति भावः ।

 पक्षे-काव्योचिताः अभ्यस्तकाव्याः आलंकारिका इति यावत् । गौणी च सा लक्षणा च तस्याः अभिज्ञाः ‘अग्निर्माणवकः, अग्निरधीते' इत्यादौ ।

सादृश्यात्मकसंबन्धरूपा गौणीत्युदीर्यते ।

इत्युक्तलक्षणां गौणीं लक्षणां जानानाः, अत एव परे धाम्नि धाम्नीत्याकारके पदेऽपि तामेव वृतिं उक्तोदाहरण इव गौणलक्षणाख्यामेव शब्दव्यापृतिं यान्ति मन्यन्ते । यदाहुः-

अभिधेयाविनाभूता प्रतीतिर्लक्षणोच्यते ।
लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता ॥

इति । अविनाभावश्चात्र संबन्धमात्रं न तु नान्तरीयकत्वं तथा सति मञ्चमञ्चस्थयोर्दैशिकस्य कालिकस्य वाऽविनाभावस्याभावात् ‘मञ्चाः क्रोशन्ति' इत्यत्र लक्षणाभावप्रसङ्गात् । वृत्तेः लक्षणाख्यव्यापृतेः गौणता गुणप्रयुक्तता लक्ष्यमाणगुणैर्योगात् इष्टा भवतीति तदर्थः । तामेवेत्यवधारणेन व्यवच्छेद्यं दर्शयति-न चान्यामित्यादिना । प्रभाकरस्तान्त्रिकाग्रणीः स आ-