पृष्ठम्:अलङ्कारमणिहारः.pdf/४८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
476
अलंकारमणिहारे

स्वरूपमात्रं लक्ष्यत इति जहदजहत्स्वार्थं व्युत्पाद्य ‘तत्त्वमसि इत्यादिमहावाक्येऽपि तत्त्वंपदार्थगतविरुद्धांशत्यागेन चिन्मात्रोपादानेन चोभयोपलक्षितमखण्डमेकमेव वस्तूक्तलक्षणया प्रतिपाद्यत इति । यदाहुः-

स्वार्थैकांशत्यागादंशान्तरमेव लक्ष्यते यत्र ।
सा जहदजहत्स्वार्था तत्त्वमसीत्यादिविषयद्दश्येयम् ॥

इतीत्यलमतिदूरोत्सर्पणेन ॥

 यथावा-

 सुविदितशक्तिं स्वामिन् कृतलक्षणमञ्जनाचलोल्लासम् । साहित्यमेत्यभान्तं श्रिया श्रये त्वामनन्त सुश्लोकम् ॥ ७६३ ॥

 अनन्तः देशकालवस्तुभिरपरिच्छिन्नः ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः । तस्य संबुद्धिः हे अनन्त! हे स्वामिन्! सर्वशेषिन्! सुविदिता सकलश्रुतिसुप्रसिद्धा शक्तिः यस्य तम् । शक्तिर्नाम स्वेतरसर्वसामर्थ्यनिर्वाहकः 'जगत्प्रकृतिभावो मे यस्सा शक्तिरितीर्यते’ इत्यादिषूक्तस्सर्वोपादानत्वात्मको गुणविशेषः ।यदन्यैरशक्यत्वादघटितमिव भवति तद्धटनसमर्थ्यरूपो वा । अत्र ‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इति श्रुतिरप्यनुसन्धेया । कृतलक्षणं ‘समस्तकल्याणगुणात्मकोऽसौ' इत्याद्युक्तरीत्या कल्याणगुणैः प्रतीतं ‘गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ' इत्यमरः । अञ्जनाचले उल्लासो हर्षः प्रकाशो वा यस्य तम् । अञ्जनाचलेन उल्लास्यत इति वा तथोक्तम् । श्रिया लक्ष्म्या साहित्यं वैशिष्टयं एत्य प्राप्य भान्तं श्रीवैशिट्यादेव हि तव भानमिति भावः । अत्र ‘स्वामिपुष्करिणीतीरे रमया सह मोदते’ इत्येत-