पृष्ठम्:अलङ्कारमणिहारः.pdf/४८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
475
समासोक्तिसरः (२५)

आश्रयणं आधारः तं अतति सततं गच्छतीत्यगलक्षणाश्रयणात् ‘अत सातत्यगमने’ अस्मात् क्विप् । भवति । परस्मिन् ब्रह्मणि परमव्योम्नः फणिगिराववतीर्णे परमव्योमदिव्यदीप्तिरपि फणिगिरिमेव सततमाश्रितेत्यर्थः ।

 पक्षे–तत् त्वमिति पदद्वयं भागत्यागलक्षणायाः जहदजहल्लक्षणायाः आश्रयणात् अर्थबोधकं भवतीति भावः । परस्य ब्रह्मणो दिव्यमङ्गळविग्रहविशिष्टस्य यद्देशकालवैशिष्ट्यं पूर्वमासीत् तद्देशकालवैशिष्ट्यमधुना नास्तीति तत्त्वमित्यत्र तत्तांशे स्वार्थत्यागः त्वत्तांशे तु तदत्याग इतीयं भवति जहदजहल्लक्षणेति ध्येयम् ॥

अंशभेदमुपादाय जहाति न जहाति च ।
शब्दस्स्वार्थं यदि जहदजहत्स्वार्थलक्षणा ॥

इति तल्लक्षणम् । अत्र प्रस्तुते पौराणिकव्यवहारे अप्रस्तुतस्यालंकारशास्त्रीयव्यवहारस्यारोपः ।

 यद्वा-अत्र तत्त्वमसीति पदैः ‘तत्त्वमसि श्वेतकेतो’ इति श्रुतिवाक्यप्रत्यभिज्ञापनात् तत्र जीवब्रह्माभेदमुपपादयतामद्वैतिनां व्यवहारोऽप्रस्तुतः प्रतीयमानः प्रस्तुते पौराणिकव्यवहारे समारोप्यत इति । ते हि ‘तत्त्वमसि' इत्यत्र तत्त्वंपदार्थयोस्सर्वज्ञत्वकिंचिद्ज्ञत्वरूपविरुद्धांशपरित्यागेन अविरुद्धचिन्मात्रोपादानेन चोभयोपलक्षितमेकमखण्डं वस्तु भागत्यागलक्षणया प्रतिपाद्यत इति वर्णयन्ति । अनयोरियानेव भेदः । तथाहि- आलंकारिकास्तावत् 'सोऽयं देवदत्तः' इत्यादौ तत्तांशस्येदानीमसंभवात्तस्यैव हानं इदंतांशस्य त्विदानीं संभवादहानमिति जहदजहत्स्वार्थं लक्षणामाचक्षते । अद्वैतब्रह्मवादिनस्तु-दृष्टान्तदार्ष्टान्तिकयोरैकरूप्याय 'सोऽयं देवदत्तः' इत्यत्रापि तत्तेदंतांशयोः परस्परविरुद्धयोरुभयोः परित्यागेन अविरुद्धस्वरूपमात्रापरित्यागेन द्वयोपलक्षितं