पृष्ठम्:अलङ्कारमणिहारः.pdf/४८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
474
अलंकारमणिहारे

इति भाषणादिति भावः । अत्रापि पुराणप्रसिद्धे प्रस्तुतव्यवहारे अप्रस्तुतशब्दशास्त्रीयव्यवहारारोपः ॥

 यथावा--

 परमं पदमध्यवसत्सरमं यद्ब्रह्म तत्त्वमसि भगवन् । इह फणिशिखरिणि लग्नस्तद्भागत्यागलक्षणाश्रयणात् ॥ ७६२ ॥

 हे भगवन् ! श्रीनिवास ! यद्ब्रह्म परमं पदं 'तद्विष्णोः' इत्यादिश्रुतिप्रथितं दिव्यं स्थानं सरमं सश्रीकं सत् अध्यवसत् भक्तानुग्रहार्थपरिगृहीतदिव्यमङ्गळविग्रहविशिष्टतया अध्यतिष्ठत् । इह अस्मिन् भूलोके फणिशिखरिणि लग्नः त्वं तद्ब्रह्म असीति योजना । अर्थस्तु स्फुट एव ।

 

श्रीनिवासोऽपि शेषाद्रौ ततस्स्वामिसरस्तटे ।

इत्युपक्रम्य,

पुराणपुरुषो धाता पुरुषस्तमसः परः ।
वैकुण्ठं पूर्ववसतिं त्यक्त्वेदानीं हि हे तिष्ठति ॥

इते पाद्मवेंकटाद्रिमाहात्म्योक्तिः, 'मायावी परमानन्दम्’ इत्याद्युक्तिश्चेहानुसंहिता । अत एव तद्भा तस्य परमपदस्य भा । आदन्तोऽयं शब्दः ।

ब्रह्मणस्सदनात्तस्य परं स्थानं प्रकाशते ।
देवा हि यन्न पश्यन्ति दिव्यं तेजोमयं पदम् ॥
अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः ।
स्वयैव प्रभया राजन् दुष्प्रेक्षं देवदानवैः ॥

इति महाभारताद्युक्ता दिव्या दीप्तिः । आगत्य परमपदाद्भुवमेत्य । अगलक्षणाश्रयणात् अगलक्षणं उक्तफणिगिरिरूपं यत्