पृष्ठम्:अलङ्कारमणिहारः.pdf/४७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
473
समासोक्तिसरः (२५)

इत्युक्तं निश्श्रेयसोपायभूतमुपासनात्मकमिति वेद्यम् । प्रतिपच्छब्दस्य प्रतिपूर्वेकपदधातुनिष्पन्नतया दकारान्तत्वेन नात्र 'इसुसुक्तान्तात्कः' इति तान्तलक्षणकादेश इति ध्येयम् । इतरत् भगवदितरनामधेयं तु न । सत्सु प्रयोज्यं न भवति । तेषामनन्यशेषत्वादिति भावः । यथोच्यते भरद्वाजसंहितायां—

तामसान् राजसांश्चैव व्यपदेशान्विवर्जयेत् ।
ध्रुवं व्यपैति भक्तोऽपि व्यपदेशैरसात्त्विक्तैः ॥

व्यपदेशैः नामभिः ।

सात्त्विकं नाम शुद्धानामशुद्धानां तु राजसम् ।
बाह्यादितन्त्रसिद्धानां दैवतानां तु तामसम् ॥

इति । शुद्धानां अनन्ययाजिनाम् । अशुद्धानामन्ययाजिनामित्यर्थः । यद्वा पूर्वार्धेऽपि समस्तमपि तव नाम यदस्ति तत् हितकृदन्तमिति योजना । अर्थस्तूक्त एव । हितकृदन्तमित्येतत् विधेयमस्मिन्पक्षे इति विशेषः ।

 अन्यत्र-तद्धितकृदन्तं तद्धितान्तं कृदन्तं च यत् शब्दरूपम् । समस्तमपि समासरूपमपि यत् । कर्मणि भावे वा क्तः । नाम नामत्वेन संकेतितं तद्धि तदेव 'हि हेताववधारणे' इत्यमरः । प्रातिपदिकं प्रातिपदिकसंज्ञकम् । नामप्रातिपदिकशब्दयोरेकार्थत्वात् । ‘कृत्तद्धितसमासाश्च' इति नाम्नां प्रातिपदिकसंज्ञाविधानात् । इदं पूर्वोक्तं प्रातिपदिकं सुप्प्रयोज्यं सुप्प्रत्याहारघटकविभक्तिभिः प्रयोज्यं प्रयोगार्हं सुब्वैशिष्ट्येनैव हि तेषां प्रयोगोलोके दृश्यते । सत् साधु ‘सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्' इत्यमरः । प्रभाति । इतरत् असुप्प्रयोज्यं सुबविशिष्टमित्यर्थः । न साधु न प्रभाति ‘न केवला प्रकृतिः प्रयोक्तव्या’

ALANKARA
60