पृष्ठम्:अलङ्कारमणिहारः.pdf/४७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
470
अलंकारमणिहारे

कल्यादिनदीरूपेणोद्गत्य जातु कदाचित् स्वपरैकबिन्दुसंसर्गात् स्वस्य परः श्रेष्ठः एकः यो बिन्दुः शीकरः तस्य संसर्गात् संपर्कमात्रादिति यावत् । समस्तं स्वसंसर्गिणं सर्वं आत्मानं चेतनं साधु निर्धूतपाप्मानं सन्तं प्रथयति प्रख्यापयति । वेंकटार्द्रेर्निस्सृतो निर्झरस्स्वकीयैकशीकरसंस्पर्शमात्रेणाप्यखिलचेतनजातं पावयतीति संपिण्डितोऽर्थः ॥

 यद्वा-त्वद्गिर्युदकं उदेत्य आदेशात् आत्मानं जातु स्वपरैकबिन्दुसंमर्गात् साधुं प्रथयतीति योजना । उदेत्य उदयं प्राप्य स्वामितीर्थादिनाम्ना उत्कर्षमेत्येत्यर्थः । ‘उदयस्तु पुमान् पूर्वपर्वते च समुन्नतौ इति मेदिनी । अन्यत्सर्वमुक्तार्थकमेव । अन्यत्र त्वद्गिरि त्वद्वाचि स्थितं त्वयोच्चारितमिति यावत् । उदकं उदकपदं जातु समासविवक्षायामिति यावत् । स्वपरैकबिन्दुसंसर्गात् स्वस्मात् उदकपदात् स्वस्मात् परः परत्र विद्यमानः एकः केवलः पदान्तराव्यवहित इति यावत् । यो बिन्दुः बिन्दुशब्दः तस्य संसर्गात् संबन्धात् । उदेत्यादेशात् उद इत्याकारकमादेशं प्राप्येत्यर्थः । ल्यब्लोपे कर्मणि पञ्चमी ॥

 यद्वा-जातु इत्येतदत्र संबध्यते । जातु उदेत्याकारकमादेशं प्राप्येत्यर्थः । अनेनायमुदादेशः अनन्तरोदाहरिष्यमाणसूत्रविहितो वैकल्पिक इत्युक्तं भवति । समस्तं समासं प्राप्तं आत्मानं स्वं साधुं प्रथयति । उदकशब्दः पदान्तराव्यवहितबिन्दुशब्देन समस्तस्तस्मिन्नुत्तरपदे 'मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च' इत्यनेन उदादेशं प्राप्तस्स्वस्य साधुतां प्रकाशयतीति परिनिष्पन्नोऽर्थः । अत्रापि पौराणिके व्यवहारे पूर्ववदारोपः । प्रसिद्ध्यति हि वेंकटाद्रिजन्मनां सरितां तीर्थानां च महिमा । यथाहि स्कान्दे वेंकटगिरिमाहात्म्ये-